This page has not been fully proofread.

त्रिसप्ततितमः श्लोकः
 
पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ
 
कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ ७३ ॥
 
१६३
 
अमू परिदृश्यमानौ, ते तब, वक्षोजौ कुचौ, अमृतरसमाणिक्य-
कुतुपौ अमृतरसस्य माणिक्यकुतुपौ अमृतरसपूरितमाणिक्यकुतुपा वित्यर्थः ।
कुतुपशब्दो यद्यपि चर्मनिर्मितघृत तैलाद्याधारभूत घटसन्निभपात्रीबाचकः तथापि
तस्याः भगवतीस्तनसादृश्यावगाहने अनधिकारात् तदर्थ माणिक्यरचितत्व-
मङ्गीकृतं कुतुपयोः । न सन्देहस्पन्द: सन्देहस्य स्पन्दनं लेशम । त्रमिति
यावत् । नगपतिपताके ! मनसि नः अस्माकं, पिबन्तौ तौ माणिक्य-
कुतुपौ, यस्मात् कारणात्, अविदितवधूसङ्गरसिकौ कुमारौ शिशू भूत्वा,
अद्यापि इदानीमपि श्लोकरचनाकालेऽपि, द्विरंदवदनक्रौञ्चदलनौ द्विरदवदनो
विनायकः क्रौञ्चदलनः क्रौञ्चाद्रिभेदनः कुमारस्वामी तौ ॥
 
-
 
!
 
अत्रेत्थं पदयोजना – हे नगपतिपताके । अमू ते बक्षोजौ अमृतरस-
माणिक्यकुतुपौ । अस्मिन्नर्थे नः मनसि सन्देहस्पन्दो नास्ति । यस्मात्तौ
पिबन्तौ अविदितवधूसङ्गरसिकौ हिरदवदनक्रौञ्चदलनौ अद्यापि कुमारौ
 
भवतः ॥
 
अत्र वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः स्पष्ट एव । पूर्वपादे रूपकं
वक्षोजयोः कुतुपत्वेनारोपणात् । यद्वा – निश्चयान्तस्सन्देहः इमौ वक्षोजौ उत
कुतुपाविति सन्देहे कुतुपावेवेति निश्चयः, यतोऽमृतपानात् कुमारयोः शिशु-
त्वम् । स्तन्यपानमात्रात् शिशुत्वावस्यैवेति नियमो नास्ति, शैशवानन्तरं
यौवनादेर'नुभूतत्वादिति । विनायककुमारयोस्तु सर्वदा शिशुत्वं अमृतपान -
वशादेवेति अमृतरसकुतुपसन्देहापनयने साधकं प्रमाणं द्वितीयार्धप्रमेयमिति
 
1 अनुभाब्यत्वादिति.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri