2023-02-16 08:26:33 by ambuda-bot
This page has not been fully proofread.
सौन्दर्यलहरी सभ्याख्या
यदालोक्याशङ्काकुलितहृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ ७२ ॥
समं तुल्यकालं देवि ! भगवति ! स्कन्दद्विपवदनपीतं स्कन्दः
कुमारः द्विपवदनो विनायकः ताभ्यां पीतं, स्तनयुगं कुचद्वन्द्वं तव भवत्याः,
इदं नः अस्माकं, खेदं क्लेश, हरतु अपनुदतु । सततं सर्वदा प्रस्तुतमुखं
क्षीरसाविमुखम्, यत् कुचद्वन्द्वं, आलोक्य विलोक्य, आशङ्काकुलितहृदयः
आशङ्कायाः मदीयौ कुम्भौ अपहृतवतीत्याशङ्कायाः आकुलिंत अवस्कन्दितं
व्यग्रतरमित्यर्थः, तादृशं हृदयं मनो यस्य, हासजनकः मातापित्रोः (कुमारस्य
च) । असौ बालिश इति प्रेम्णा हसितवन्तावित्यर्थः । स्वस्य कुम्भौ कुम्भ-
स्थले, हेरम्बः विनायकः, परिमृशति परामृशंति । विद्यते न वेति हस्तेन
निमात्यर्थः ! झडति शीघ्रम् ॥
अत्रेत्थं पदयोजना —हे देवि ! तव समं स्कन्दद्विपवदनपीतं इदं
स्तनयुगं प्रस्तुतमुख नः खेदं सततं हरतु, यत् आलोक्य आशङ्काकुलितहृदयः
हेरम्बः हासजनकः हस्तेन झडिति स्वकुम्भौ परिमृशति ॥
यस्याः पुत्रौ जगत्पूज्यपादौ विनायककुमारस्वामिनाविति देव्याः सर्वा-
तिशायि माहात्म्यं इति प्रतीयते । देव्याः कुचकुम्भसाम्यं यदि स्यात्तदा
विनायककुम्भयोरेव तौल्यमित्यतिशयोक्तिरपि प्रतीयते । विनायकः हस्तेन
परिसृशतीत्यनेन बिनायककुम्भयोस्तुल्यौ देवीकुचावेवेति उपमेयोपमापि
ध्वन्यते । वस्त्वलङ्कारध्वनीनां एकव्यञ्जकानुप्रवेशेन सङ्करः ॥ ७२ ॥
अमू ते वक्षोजाबमृतरसमाणिक्यक्कुतुपौ
न संदेहस्पन्दो नगपतिपताके मनसि नः ।
CC-0. Jangamwadi Math Collection. Digitized by eGangotri