This page has not been fully proofread.

द्विसप्ततितमः श्लोकः
 
१६१
 
नखानां नखराणां, उद्योतैः प्रभापटलैः, नवनलिनरागं प्रातर्विक-
सिताम्बुजकान्ति, विहसतां अपलपतां, कराणां हस्तानां, ते तव, कान्ति
शोभां, कथय वद, कथयामः काव्यप्रबन्धं रचयामः, कथं केन प्रकारेण,
उमे ! पार्वति ! कयाचिद्वा विधया । वेत्यसंशये संशयोक्तिः । केनापि
प्रकारेण नास्तीत्यर्थः । साम्यं सादृश्यं, भजतु स्वीकरोतु कलया लेशेनापि
· हन्त । वाक्यारम्भे
 
-
 
हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ।
 
इत्यमरः । कमलं पद्मम्, यदि संशये, तथापि सन्देह इत्यर्थः । क्रीडल्लक्ष्मी-
चरणतललाक्षारसचणं क्रीडन्त्याः लक्ष्म्याः पद्मालयायाः चरणतलयोः लाक्षारसेन
चणं वित्तं युक्तम् । 'तेन वित्तञ्चुञ्चुप्चणपौ' इति चणप् ॥
 
अत्रेत्थं पदयोजना—हे उमे ! नखानामुद्योतैः नवनलिनरागं विहसतां
ते कराणां कान्ति कथं कथयामः कथय, कमलं कलयापि साम्यं कयाचिद्वा
भजतु । हन्त कमलं क्रीडल्लक्ष्मीचरणतललाक्षारसचणं यदि तदा हि साम्यं
भजत्विति । यद्वा कयाचिद्वा साम्यं भजतु विधयेति पाठः । तदा हन्त !
कमलं कयाचिद्रा विधया साम्यं भजतु प्राप्नोतु इत्यन्वयः । तामेव विधामाह-
यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणं तदा नान्यथेत्येकवाक्यतया अन्वयः ॥
 
अत्रातिशयोक्तिरलङ्कारः, यद्यर्थोक्त्याऽतिशयकल्पनात् । पूर्वार्धे तद्गुणा-
लङ्कारः, नखकान्तिमिरतिरक्कत्वात् कराणाम् । नवनलिनरागं विहसतामित्यत्र
उपमालङ्कारः, उभयोस्संसृष्टिः, अपृथकस्थित्या प्रयोजकत्वात् उभयोः
संसृष्टिः ॥ ७१ ॥
 
समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्तुतमुखम् ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
11