This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
मृणाली बिसलता तद्वत् मृद्वीनां मृदूनां, 'वोतो गुणवचनात्'
इति ङीप् । तव भवत्याः भुजलतानां बाहुलतानां चतसृणां चतुर्भिः सौन्दर्य
सौभाग्यं, सरसिजभवो ब्रह्मा, स्तौति प्रस्तौति । बदनैः वक्तैः, नखेभ्यः
करजेभ्यः सकाशात्, संत्रस्यन् बिभ्यत् 'भीत्रार्थनां भयहेतुः" इत्यपादाने
पञ्चमी । प्रथममथनात् पूर्व मर्दितवतः । कर्तरि ल्युट् । यदाह वृत्तिकारः-
'वोतो गुणवचनात्' इत्यत्र 'गुणमुक्तवान् गुणवचनः' इति ।
 
ब्रह्मणः पञ्चमशिरः नखात्रेणाच्छिनद्धरः ।
 
इति पुराणम् । तस्मात् प्रथममथनात्, अन्धकरिपोः सदाशिवस्य,
चतुर्णा शीर्षाणां शिरसां, समं सक्कदेव, अभयहस्तार्पणघिया अभय-
हस्तान्ग्रहीतुकाम इत्यर्थः ॥
 
अत्रेत्थं पदयोजना– हे भगवति ! तब मृणालीमृद्वीनां चतसृणां
भुजलतानां सौन्दर्य सरसिजभवः चतुर्भिर्वदनैः प्रथममथनात् अन्धकरिपोः
नखेभ्य: संत्रस्यन् समं चतुर्णा शीर्षाणां अभयहस्तार्पणधिया स्तौति ॥
 
काव्यलिङ्गमलङ्कारः, ब्रह्मैकनियतस्तोत्रस्य नखेभ्यः संत्रस्यन् इत्यादिना
समर्थनात् । बाक्यार्थहेतुकं काव्यलिङ्गमिति ध्येयम् । भुजलतावर्णने ब्रह्मण
एवाधिकारो नान्येषामिति काव्यलिङ्गेन ध्वन्यते वस्त्विति अलङ्कारेण
वस्तुध्वनिः ॥ ७० ॥
 
नखानामुद्योतैर्नवनलिनरागं विहसता
 
कराणां ते कान्तिं कथय कथयामः कथमुमे ।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम् ॥ ७१ ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri