This page has not been fully proofread.

सप्ततितमः श्लोकः
ग्रामः स्वरसमूहस्स्यान्मूर्छनादेस्समाश्रयः ।
तौ द्वौ धरातले स्यातां षड्जग्रामस्त थादिमः ॥
द्वितीयो मध्यमग्रामः तयोर्लक्षण मुच्यते ।
क्रमात्स्वराणां सप्तानामरोहश्चावरोहणम् ॥
 
मूर्छनेत्युच्यते ग्रामइये ताः सप्त सप्त च ॥ इति ॥
एताः मूर्च्छना: शुद्धतानाः इत्युच्यन्ते । अतश्च भगवत्याः कण्ठ-
वलित्रयवर्णनायां ग्रामत्रयकथंन देवलोकव्यवहारायुज्यत इत्यनुसन्धेयम् ।
तेषां ग्रामाणां स्थितिनियमसीमानः स्थितेः अवस्थानस्य नियमाथे परस्परं
ग्रामाणां सङ्करो मा भूदिति तेषामन्ते रचिताः सीमानः सेतव इव ते तव ॥
 
अत्रेत्थं पदयोजना – हे भगवति ! गतिगमकगीतैकनिपुणे ! ते गले
तिस्रो रेखाः विवाहव्यानद्धप्रगुणगुणसङ्ख्याप्रतिभुवः नानाविधमधुररागा-
करभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव विराजन्ते ।
 
पूर्वार्धे अनुमानालङ्कारः, रेखागतत्रित्वस्य मङ्गलसरत्रित्वानुमापकत्वात् ।
अनुमानस्य विच्छित्यात्मकत्वं लौकिकालङ्कारवैलक्षण्यादेव । तद्वैलक्षण्यं च
पक्षधर्मतामात्रात् व्याप्त्यभाव एव, उभयसद्भावे लौकिकमेव स्यादिति
रहस्यम् । विच्छित्तिरलौकिकी शोभा । उत्तरार्धे उत्प्रेक्षालङ्कारः, भगवत्याः
कण्ठमध्यवर्तिस्वरग्रामत्रितयहेतुचिह्नतया वलित्रयस्य संभावनात् ॥ ६९ ॥
 
मृणालीमृद्वीनां तव भुजलतानां चतसृणां
 
चतुर्भिः सौन्दर्य सरसिजभवस्स्तौति वदनैः ।
नखेभ्यः संत्रस्यन् प्रथममथनादन्धकरिपोः
चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ ७० ॥
 
तदादिमः.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
१५९