This page has not been fully proofread.

सौन्दर्यलहरी सब्याख्या
 
-
 
इदं चानुष्ठानं देशतो व्यवस्थापितम् । अत एव क्वचिद्देशे मङ्गलसूत्र-
बन्धनं क्वचिद्देशे सरत्रयबन्धनं च क्वचिदुभयमपि नास्तीति । अस्य मतं सर्वत्रा-
स्तीति । यद्वा – ग्रन्थकृतो देशे एतदुभयानुष्ठानं विद्यत एवेति ज्ञेयम् ।
प्रगुणगुणानां सङ्ख्या त्रित्वं तस्याः प्रतिभुवः । तथा प्रतिभूः उत्तमर्णस्य
अधमर्ण ज्ञापयति एवं सङ्ख्यां ज्ञापयतीति प्रतिभुव इत्युक्तम्। सङ्ख्याज्ञपिकाः
अस्मदाश्रयकण्ठे शंभुना पूर्व भगवतीविवाहसमये सरत्रयमस्मिन् स्थले
बद्धमिति द्रष्टॄणां ज्ञापयति वलित्रयमिति भावः । विराजन्ते अतितरां प्रका-
शन्ते । नानाविधमधुररागाकरभुवां नानाविधाः अनेकप्रकाराः मधुराः
मनोरमाः रागाः तेषामाकरभुवः खनिस्थानानि आश्रयभूताः तेषाम् ॥
 
१५८
 
अयमर्थः–'गीतयः पञ्च, तदुत्था: ग्रामरागाः त्रिंशत्, उपरागाः
अष्टौ, रागास्तु विंशतिः, जनकरागाः पञ्चदश, भाषारागाः षण्णवतिः,
विभाषारागाः विंशतिः, आन्तरा भाषाश्च त्रयः इत्यादिकं रागाध्यायप्रतिपाद्य-
मत्रावगन्तव्यम् । ते च रागाः प्रसिद्धाः, मध्यमावतीमालवीश्रीभैरवीयङ्गाली-
वसन्ताधन्यासीदेश्यादिकं रागाङ्गम् । वेलावतीशुद्धवराली पुन्नागवरालीनाट्या-
दिकं भाषाङ्गम् । रामक्रियादिकं क्रियाङ्गम् । प्रवीधी घूर्जरीवरालीमलहरी-
प्रमुखं उपाङ्गं च रागशब्देन सङ्गृहीतं इत्युक्तं नानाविधमधुररागाकरभुवां
इति । त्रयाणां ग्रामाणां ग्रामशब्द: समूहवाचकः सर्वे स्वराः त्रेधा संहताः
षड्जग्रामो मध्यमग्रामो गान्धारग्रामः इति त्रेध्ना स्वरसंहतिः । तत्र भूलोके
ग्रामद्वयस्यैव प्रसरः । सप्तस्वराणामारोहावरोहक्रमेण मूर्छनाश्रयत्वम् । तच्च
मन्द्रमध्यतारात्मना त्रेधा भवति। गांन्धारग्रामस्य शरस्थानत्वान्मन्द्रादिक्रमेणो-
पक्रमासंभवात् गान्धारग्रामो देवलोके प्रसृतः । यथोक्तं शार्ङ्गदेवेन-
* द्रविडी.
 
1 स्वरस्थानांनि. 2 गतय:
 
3
 
उपरागम्.
 
-
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
-