This page has not been fully proofread.

एकोनसप्ततितमः श्लोकः
 
अनयोरङ्गाङ्गिभावेन सङ्करः । उत्तरार्धेऽपि निदर्शनालङ्कारः, मृणालीलालित्य-
मित्यत्र लालित्यसदृशलालित्यमिति प्रतिबिम्बाक्षेपात् । उभयोरङ्गाङ्गिभावेन
सङ्करः ॥ ६८ ॥
 
गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे
विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः ।
विराजन्ते नानाविधमधुररागाकरभुवां
 
त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ ६९ ॥
गले कण्ठप्रदेशे, रेखाः भाग्यरेखा:, बलीरूपाः तिस्रः-
ललाटे च गले चैव मध्ये चापि वलित्रयम् ।
स्त्रीपुंसयोरिदं ज्ञेयं महासौभाग्यसूचकम् ॥
 
इति सामुद्रिकम् । गतिगमकगीतैकनीपुणे ! गतिः सङ्गीतगतिः सङ्गीतस्य
द्वे गती मार्गो देशी चेति । गमकः स्वरस्य कम्पः -
 
स्वरस्य गमकः कम्पः स च पञ्चविधस्स्मृतः ।
 
इति भरते । ते च पञ्चप्रकारास्तत्रैव ज्ञातव्याः । गीतं धातुमात्वात्मकं द्विविधम् ।
वामातुरुच्यते गेयं धातुरित्यभिधीयते । इति ॥
 
तत्र एका मुख्या चासौ निपुणा च तस्याः सम्बुद्धिः । विवाहव्यानद्धप्रगुण-
गुणसङ्ख्याप्रतिभुवः विवाहे उद्वाहसमये व्यानद्धाः विशेषेण मङ्गलसूत्र-
बन्धनानन्तरं तत्समीपे आ समन्तात् कण्ठं कृत्स्नमावृत्य नद्धाः बद्धाः प्रगुण-
गुणा: बहुतन्तुनिर्मितमूत्राणि । तानि त्रीण्येव, यथोक्तं गृह्णकारैः-
माङ्गल्यतन्तुनानेन बध्वा मङ्गलसूत्रकम् ।
वामहस्ते सरं बध्वा कण्ठे च त्रिसरं तथा ॥ इति ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
-
 
१५७
 
-