This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
अत्रेत्थं पदयोजना—हे हिमगिरिसुते । तुहिनगिरिणा वत्सलतया
कराग्रेणे स्पृष्टं गिरीशेन अधरपानाकुलतया मुहुरुदस्तं शंभो: करग्राां
औपम्यरहितं तब मुखमुकुरवृन्तं चुबुकं कथंकारं ब्रूम इति ॥
 
१५६
 
अत्रानन्वयालङ्कारो ध्वन्यते, सर्वोपमानिषेधेन स्वस्य स्वयमेव सदृश-
मित्यनन्वयालङ्कारप्रतीतेः ॥ ६७ ॥
 
भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती
तब ग्रीवा धंत्ते मुखकमलनालश्रियमियम् ।
स्वतः श्वेता कालागुरुब हुलजम्बालमलिना
मृणालीलालित्यं वहति यदधो हारलतिका ॥ ६८ ॥
 
भुजाश्लेषात् भुजाभ्यामालिङ्गनात्, नित्यं सततं पुरदमयितुः
पुरान्तकस्य, कण्टकवती सरोमाञ्चा, तव ग्रीवा कण्ठनालः, धत्ते दधति,
• मुखकमलनालश्रिय मुखमेब कमलं तस्य नालश्रियं दण्डसौभाभ्यं, इयं
ग्रीवा, स्वतः श्वेता स्वभावतः स्वच्छा, कालागुरुबहुलजम्बालमलिना कालो
नीलवर्णः अगुरुः लघुकाएं कृष्णा गुरुरित्यर्थः तस्य बहुलः समृद्धः जम्बाल:
पङ्कः तेन मलिना मलीमसा, मृणालीलालित्यं बिसलतासौभाग्यं, वहति
प्राप्नोति । यत् यस्मात्कारणात्, अधः अध:प्रदेशे, हारलतिका मुक्तावलिः ॥
 
अत्रेत्थं पदयोजना – हे भगवति ! तवेयं ग्रीवा पुरदमयितुः भुजा-
श्लेषात् नित्यं कण्टकवती मुखकमलनालश्रियं धत्ते, यत् अधः स्वतः श्वेता
कालागुरुबहुलजम्बालमलिना हारलतिका मृणालीलालित्यं वहति ॥
 
पूर्वी निदर्शनालङ्कारः, मुखकमलनालश्रियमित्यत्र श्रीसदृशी श्रीरिति
प्रतिबिम्बाक्षेपात् । रूपकमप्यलङ्कारः, मुखकमलमित्यत्र मुखे कमलत्वरूपणात् ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri