This page has not been fully proofread.

सप्तषष्टितमः श्लोकः
 
१५५
 
नात्, यः पराजितो वैणिकः स्ववीणां चोलेन निचुलयति तेन सहाभेदाध्यव--
सायप्रतीतेः ॥ ६६ ॥
 
कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
 
गिरीशेनोदस्तं मुहुरधरपानाकुलतया ।
करग्राह्यं शम्भोर्मुखमुकुरवृत्तं गिरिसुते
 
कथंकारं ब्रमस्तव चुबुकमौपम्यरहितम् ॥ ६७ ॥
 
कराग्रेण अग्रकरेण, स्पृष्टं संमृटं, तुहिनगिरिणा हिमाद्रिणा
जनकेन, वत्सलतया वात्सल्येन पित्रादीनां पुत्रादिषु प्रीतिः वात्सल्यशब्देनो-
च्यते । यथोक्तं सर्वज्ञसोमेश्वरेण – "पुत्रादौ वात्सल्यं, पत्न्यादौ प्रेम,
शिष्यादावनुग्रहः, अग्रजादौ भक्तिः । अत्र आदिशब्देन गौणपुत्रगौण-
पत्नीगौणशिष्यगौणाग्रजाः गृह्यन्ते" इति। गौणपुत्रः पुत्रत्वेन कल्पितसंबन्ध:
न तु क्रीतादिः, तस्य पुत्रत्वात् । गौणपत्नी भुजिष्या । गौणशिष्यः शिष्यत्वेन
कल्पितसंबन्ध एव न तु स्वीकृतमन्त्रग्रहणमात्रः । गौणाग्रजः कल्पितसंबन्धः
न तु क्षेत्रजादिः । गिरीशेन शम्भुना, उदस्त उन्नमित, मुहुः अत्यर्थ,
अधरपानाकुलतया अधरपानव्यग्रतया अतिप्रेम्णेत्यर्थः । करग्राह्यं करेण
गृहीतुं योग्यं मुखावलोकनचुम्बनव्यग्रतया, शम्भोः मुखमुकुरवृन्तं मुखमेव
मुकुरो दर्पणः तस्य वृन्तं तदाधारदण्डः तं गिरिसुते ! हिमाद्रितनये !
कथंकारं कथंकृत्वा ब्रूमः वर्णयामः । 'विभाषा कथमि लिङ्च' इति
लि संधारणायां लट् । तव भवत्याः, चुबुकं अधराधःकर्णिकां,
औपम्यरहितं उपमारहितम् । उपमाराहित्यं तु कमलकर्णिकादर्पणवृन्तोदया-
द्विशिखर शिलादीनां, शम्भुहिमगिरिकरोपलालनाजनितसौभाग्यातिशयाभावेन
भगवतीचुबुकस्य तुलना नास्तीति ॥
 
.
 
,
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri