2023-02-16 08:26:32 by ambuda-bot
This page has not been fully proofread.
१५४
सौन्दर्यलहरी सव्याख्या
विपञ्च्या गायन्ती विविधमपदानं पशुपतेः
त्वयाssरब्धे वक्तुं चलितशिरसा साधुवचने ।
तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां
निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ ६६ ॥
विपञ्च्या वीणया, गायन्ती गानं कुर्वन्ती, विविध अनेकप्रकारं
त्रिपुरविजयदक्षयागध्वंसहालाहलधारणजलन्धरवधगजासुरवधादिकं, अपदानं
वृत्तं कर्म, पशुपतेः ईश्वरस्य, त्वया भवत्या, आरब्धे उपक्रान्ते सति,
वक्तुं निगदितुं, चलितशिरसा अन्तः सन्तोषवशात् स्वयं शिरः कम्पवत्या,
साधुवचने मधुरवचने, तदीयैः तस्य वचनस्य सम्बन्धिभिः, माधुर्यैः
माधुर्यगुणैः अपलपिततन्त्रीकलरवां अपलपिता अपहसिताः स्वकीयतन्त्रीकल-
रवाः यस्याः सा तां निजां स्वकीयां, वीणां विपञ्चीं, वाणी भारती,
निचुलयति निचुलवतीं करोति । निचुलः कूर्पासः । चोलेन चोलः
कूर्पासविशेषः वीणाकूर्पासः । चोलेन निचुलवतीं करोतीति सामान्यविशेषभावे,
न पौनरुक्त्यम् । केचित्तु भोजमतावलम्बिन आहुः – चुलिधातुः तिरोधान-
वाचक इति । नितरां चुलयति अच्छादयतीत्यर्थः । निभृतं गूढं यथा
भवति तथा ॥
अत्रेत्थं पदयोजना–हे भगवति ! पशुपतेः विविधं अपदानं विपञ्च्या
गायन्ती त्वया वक्तुं चलितशिरसा साधुवचने आरब्धे सति तदीयैः माधुर्यैः
अपलपिततन्त्रीकलरवां निजां वीणां वाणी चोलेन निचुलयति ॥
अत्रातिशयोक्तिरलङ्कारः, वीणायाः निचोलनासंबन्धेऽपि संबन्धकथ-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri