This page has not been fully proofread.

पञ्चषष्टितमः श्लोकः
 
रणे युद्धे, जित्वा पराजितान् कृत्वा, दैत्यान् अपहृतशिरखैः*
कवचिभिः वर्मयुक्तैः निवृत्तैः युद्धान्निवृत्तैः, चण्डांशत्रिपुरनिर्माल्य-
विमुखैः चण्डांशः चण्डभागः चण्डो नाम प्रमथः तस्य भागः स एव
त्रिपुरहरस्य निर्माल्यं स्वीकृतावशिष्टं गन्धताम्बूलादि तत्र विमुखः । 'हर-
निर्माल्यं परित्याज्यम्' इत्यादिस्मृतयः चण्डांशरूपहरनिर्माल्य 'निषेधपरा
इत्यवगन्तव्यमिति बोधयन्ति । विशाखेन्द्रोपेन्द्रैः विशाखः सेनानीः, युद्धेषु
तस्यैव प्रामुख्यमित्यग्रे गणना, इन्द्रो महेन्द्रः उपेन्द्रः विष्णुः तैः शशिविश-
दकर्पूरशकलाः चन्द्रवहिशदाः कर्पूरशकलाः घनसारखण्डाः येषां ते ।
विलीयन्ते विलयनं क्रियन्ते । मातः ! हे जननि । तव वदनताम्बूलकबलाः
वदननिर्गतास्ताम्बूलकचलाः ॥
 
-
 
अत्रेत्थं पदयोजना — हे मातः ! रणे दैत्यान् जित्वा अपहृतशिरस्त्रैः
कबचिमिः निवृत्तैः चण्डांशत्रिपुरहर निर्माल्य विमुखैः विशाखेन्द्रोपेन्द्रैः शशि-
विशदकर्पूरशकलाः तव वदनताम्बूलकबलाः विलीयन्ते ॥
 
१५३
 
अयमर्थः - विशाखेन्द्रोपेन्द्राः दैत्यान् संहृत्य भगवत्याः कुमारं पुरस्कृत्य
पादवन्द्रनार्थमागत्य शिरस्त्राण्यपहार्य पादोपसङ्ग्रहणमकुर्वन् । तदनन्तरं
प्रसन्ना भगवती ईषत्खादितान् ताम्बूलकबलान् विततार । तद्गतकर्पूरशकल-
विलय नपर्यन्तं खादितवन्तः इत्युक्त्या एतादृशोऽनुग्रहः भगवत्याः कुमारस्वा-
मिन्येव । इन्द्रादिष्वपि काचित्क इत्यभिप्रायः ॥ ६५ ॥
 

 
* अपहृतानि शिरोवेष्टनानि यैस्तैः स्वामिकार्यनिर्वर्तनानन्तरं सेवकानां राज-
संमुखे प्रणामवेलायां उष्णीषशिरस्त्रादिकं निर्मुच्य प्रणामः कर्तव्य इति परिपाटी ;
वां परिपाटीमाश्रित्याह–अपहृतशिरस्त्रैरिति ॥
 
विशेषपरा.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri