This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
१५२
 
द्विस्निरुक्तिः तदेव जपो यस्यास्सा अनन्यमनस्केत्यर्थः। जपापुष्पच्छाया जपा-
पुष्पं रक्तपुप्पीपुष्पं तस्य छायेव छाया कान्तिः यस्याः सा । तव जननि ! हे
मातः ! जिह्वा रसना, जयति स्फुरति । सा तच्छन्दो वर्तिष्यमाणां प्रसिद्धि
परामृशति । यदग्रासीनायाः यस्या जिह्वायाः अग्रे आसीनायाः निषण्णायाः
स्फटिक दृषदच्छच्छविमयी स्फटिकदृषदः स्फटिकोपलस्येव अच्छा छवि:
कान्तिः तया प्रचुरा । प्राचुर्यार्थे मयट् । स्फटिकधवलेत्यर्थः । सरस्वत्याः
भारत्याः मूर्तिः स्वरूपं, परिणमति विकारमापद्यते, रूपान्तरं प्राप्नोतीति
यावत् । माणिक्यवपुषा पद्मरागवपुषा ॥
 
अत्रेत्थं पढ़योजना– हे जननि ! तब सा जिह्वा अविश्रान्तं पत्युः
गुणगणकथाब्रेडनजपा जपापुष्पच्छाया जयति, यदग्रासीनायाः सरस्वत्याः
स्फटिऋदृषदच्छच्छविमयी मूर्ति: माणिक्यवपुषा परिणमति । जिह्वायां
रक्तत्वमात्रं न भवति । तटस्थानां रक्तीकरणे रक्तिम्नः शक्तिरपि । अत एव
जयतीति प्रयुक्तम् ॥
 
तद्गुणालङ्कारः, 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः' इति लक्ष-
णात् । देव्याः वदनाम्बुजे सर्वदा सरस्वती स्वमूर्त्या वसतीत्यागमरहस्यम् ॥६४॥
 
रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिः
निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः ।
विशाखेन्द्रोपेन्द्रैः शश्निविशदकर्पूरशकलाः
 
बिलीयन्ते मातस्तव बदनताम्बूलकबलाः ॥ ६५ ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri