This page has not been fully proofread.

चतुःषष्टितमः श्लोकः
 
१५१
 
स्मितज्योत्स्नाजालं स्मितमीषद्धसितमेव ज्योत्स्ना तस्याः जालं वितानं,
तब वदनचन्द्रस्य वदनमेव चन्द्रः तस्य पिबतां आस्वादयतां चकोराणां
पक्षिविशेषाणां आसीत् अतिरसतया अतिमाधुर्यात्, चञ्चुजडिमा
जिह्वाजाड्यम् । अतः कारणात्, ते चकोराः, शीतांशो: चन्द्रस्य, अमृत-
लहरीं अमृतस्य सुधाया उत्सेकं ज्योत्स्नामृतमित्यर्थः । आम्लरुचयः आम्ले
अम्लरसे रुचिर्वाञ्छा येषां ते आम्लरुचयः, पिबन्ति भक्षयन्ति । स्वच्छन्दं
यथेच्छं, निशिनिशि प्रतिनिशं ज्योत्स्नास्विति शेषः । भृशं अत्यर्थ,
काञ्जिकधिया आरनालभ्रान्त्या ॥
 
अत्रेत्थं पदयोजना–हे भगवति ! तव वदनचन्द्रन्य स्मितज्योस्खा -
जालं पिचतां चकोराणां अतिरसतया चञ्चुजडिमा आसीत्, अतस्ते आम्ल-
रुचयः शीतांशोरमृतलहरीं काजिकधिया स्वच्छन्दं निशिनिशि भृशं
पिबन्ति ॥
 
अत्र अतिशयोक्तिरलङ्कारः, चञ्चुजडिमनिबन्धनज्योत्स्नापानासम्बन्धेऽपि
तत्सम्बन्धकथनात् अतिमधुरस्तन्यपानप्रसक्तजिह्वाजाध्यनिबन्धनाम्लपिपासुभिः
बालकैरमेदाध्यवसानस्य प्रतीतेः ॥ ६३ ॥
 
अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा
 
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी
 
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥
 
अविश्रान्तं अनारतं, पत्युः सदाशिवस्य गुणगणकथाम्रेडनजपा-
गुणानां त्रिपुरविजयादीनां गणः समूहः तस्य कथा वृत्तान्तः तस्य आम्रेडनं
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri