This page has not been fully proofread.

१५०
 
सौन्दर्यलहरी सब्याख्या
 
जनयतु उत्पादयतु । आशंसायां लोट् । विद्रुमस्य फलं यदि स्यात् तदा सदृश -
वस्तुसद्भावः न तु विद्रुममात्रं सदृशमिति । फलं पक्कफलं, पीतवर्णाभ्यो
लताभ्यः उत्पन्नं फलं अतिरिक्तं, रक्तलतोत्पन्नस्य रक्तिमा किमु वक्तव्य इति
तदेव सदृशमिति तात्पर्यम् । विद्रमलता प्रवाललतिका । न बिम्बं बिम्बफलं
तद्विम्बप्रतिफलनरागात् तयोः दन्तच्छदयोः बिम्बस्य प्रतिफलनं प्रति-
बिम्बनं तेन रागः रक्तिमा तस्मात् । बिम्बफलमिति व्यवहारः अधरबिम्बप्रति-
बिम्बप्रसादासादितः, अन्यथा तस्य बिम्बव्यवहारो न स्यात् । यथा स्फटिकादौ
जपाकुसुमादेः प्रतिबिम्बवशादेव स्फटिकादीनां रक्तता एवं बिम्बफलस्यापीति ।
तद्धिम्बप्रतिफलनरागात्, अरुणितं तुलामध्यारोढुं तुलायां साम्यकथायां स्थातुं
कथमिव । इवेति वाक्यालङ्कारे । विलज्जेत ब्रीडेत, कलया लेशेन ॥
 
-
 
अत्रेत्थं पदयोजना — हे सुदति । तव प्रकृत्या आरक्तायाः दन्त-
च्छदरुचेः सादृश्यं प्रवक्ष्ये । विद्रुमलता फलं जनयतु । बिम्बं पुनः
तद्विम्बप्रतिफलनरागादरुणितं कलयापि तुलामध्यारोढुं कथमिव न विलज्जेत ।
लज्जधातुरात्मनेपदी ॥
 
अत्रातिशयोक्तिरलङ्कारः, यद्यर्थोक्तौ कल्पनात् । द्वितीयार्धे असम्बन्धे
संबन्धनिबन्धनातिशयोक्तिः, बिम्बप्रतिफलनासंबन्धेऽपि संबन्धकथनेनाभेद-
कथनात् । उभयोः संसृष्टिः ॥ ६२ ॥
 
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणामासीदतिरसतया चञ्चजडिमा ।
 
अतस्ते शीतांशोरमृतलहरीमाम्लरुचयः
 
पिबन्ति स्वच्छन्दं निशि निशि भृशं काजिकधिया ।॥ ६३
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri