This page has not been fully proofread.

द्विषष्टितमः श्लोक:
 
१४९
 
मुक्ताः मुक्तामणीन् शिशिरकणनिश्वासगलितं शिशिरकरः चन्द्रः तस्य
निश्वासो वामनाडीमार्गवायुः तेन गलितं सृतं, समृद्धया आधिक्येन, यत्
यस्मात्कारणात् तासां मुक्तानां, बहिरपि च बाह्यप्रदेशेऽपि नासिकाग्र-
बामभागेऽपीत्यर्थः । नासिकाकारितो वंशदण्डः मुक्तामणिधर: मुक्तामणि
धृतवान् । 'मुक्तामणिमधात्' इति सम्यक्पाठः ॥
 
अत्रेत्थं पदयोजना - हे तुहिनगिरिवंशध्वजपटि । त्वदीपोऽसौ नासा-
वंशः अस्माकं उचित नेदीयः फलं फलतु । सः अन्तः मुक्ता: वहति ।
यद्यस्मात्कारणात् तासां समृद्धया शिशिरकरनिश्वासलगलिंत बहिरपि च
मुक्तामणिधरः ॥
 
अत्र नासिकायाः वंशत्वारोपणात् रूपकम् । वंशत्वसाधकप्रतिपादकं
उत्तरार्धम् । वंशगर्भे मौक्तिकानि उद्भवन्तीति लोकशास्त्रमर्यादा । अतो
नासावंशदण्डेऽपि अभ्यन्तरे मौक्तिकान्युद्धतानि वर्तन्ते । नो चेन्नासा-
दण्डस्य बहिः मुक्तामणिधरत्वं कथं सङ्घटत इत्यर्थीपत्त्या वंशदण्डाकारो
नासिकायाः समर्थित इति रूपकमेव सम्यक् ॥ ६१ ॥
 
प्रकृत्याऽऽरक्तायास्तव सुदति दन्तच्छदरुचेः
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।
 
न बिम्बं तद्विम्बप्रतिफलनरागादरुणितं
 
तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ ६२ ॥
 
प्रकृत्या स्वभावेन, आरक्तायाः आताम्रायाः, तव सुदति शोभनाः
दन्ताः यस्याः तस्याः सम्बुद्धिः । दन्तच्छदरुचेः दन्तच्छदयोरोष्ठयोः रुचेः
सौभाग्यस्य, प्रवक्ष्ये प्रकर्षेण कथये । सादृश्यं सहशस्य भावः सादृश्यं,
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri