This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
चमदित्यव्ययमाश्चर्यानुकरणवाचि
 
। कारशब्दः स्वरूपपरः। यद्वा — सुखदुःखो-
द्भूतानन्दैः हठोत्थितचित्तविक्रिया चमत्कारः ससीत्कारशरीरोल्लासनादिकृत् ।
चमत्कारश्लाघासु आश्चर्यानुकरणसन्दोहेषु चलिंत शिरो यस्यास्तस्याः,
कुण्डलगणः कर्णाभरणसमूहः, झणत्कारैः झणदित्यव्ययं भूषणरवानुकरणे ।
कारशब्दः स्वरूपवाची । झणत्कारैः तारैः अतिबहुलैः उच्चतरैः, प्रतिवचनं
प्रतिशब्दं अनुमोदवचनं, आचष्ट इव ते ॥
 
१४८
 
अत्रेत्थं पदयोजना — हे शर्वाणि । ते अमृतलहरीकौशलहरीः सूक्तीः
श्रवणचुलुकाभ्यामविरलं पिबन्त्याः चमत्कारश्लाघाचलितशिरसः सरस्वत्याः
कुण्डलगणः तौरैः झणत्कारैः प्रतिवचनमाचष्ट इव ॥
 
अत्र उत्तरार्धे उत्प्रेक्षालङ्कारः ; झणत्काराणां प्रतिवचनत्वेन संभाव-
नात् । पूर्वोघे अतिशयोक्तिरलङ्कार; ; सरस्वत्याः शिरःकम्पनसंबन्धाभावेऽपि
संबन्धोक्तरसंबन्धे संबन्धनिबन्धनात् । उभयोरङ्गाङ्गिभावेन सङ्करः ॥ ६० ॥
 
असौ नासावंशस्तुहिनगिरिवंशध्वजपटि
 
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।
वहत्यन्तर्मुक्ताः शिशिरकरनिःश्वासगलितं
 
समृद्धया यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१ ॥
 
असौ परिदृश्यमानः, नासावंशः नासा नासिका वंशः वंशदण्डः
रूपकमेतत् । तुहिनगिरिवंशध्वजपटि ! तुहिनगिरेः हिमाचलस्य वंशस्य
अन्वयस्य ध्वजपटि पताके ! त्वदीयः भवदीयः, नेदीयः सन्निकृष्टतरं,
फलतु निष्पादयतु । फलं इष्टार्थ, अस्माकं मत्संबन्धिनां मम चेत्यर्थः ।
उचितं क्रियाविशेषणमेतत् यथेप्सितं वहति धारयति । अन्तः अभ्यन्तरे,
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri