This page has not been fully proofread.

पष्टितम श्लोकः
 
१४७
 
अवनिरथमर्केन्दुचरणं सज्जितवते प्रमथपतये दुषति । 'क्रुधद्रुहेर्ष्या सूयार्थानां
यं प्रति कोपः' इति चतुर्थी ।
 
अत्र पूर्वार्धे उत्प्रेक्षालङ्कारः ; भगवत्याः मुखस्य रथत्वेनोत्प्रेक्षणात् ।
द्वितीया आरोहणस्य महावीरत्वसम्पादकत्वकथनात् पदार्थहेतुकं काव्य-
लिङ्गमलङ्कारः। परमेश्वरस्य मन्मथेन सार्धं युद्धसन्नाहासंबन्धेऽपि संबन्ध-
कथनादतिशयोक्तिः । काव्यलिङ्गातिशयोक्तयोरङ्गाङ्गिभावेन सङ्करः । उत्प्रेक्षा-
यास्तु काव्यलिंङ्ग प्रत्यनुप्राणकतैव, न संसृष्टिः, नापि सङ्करः इति ध्येयम् ।
पृथक स्थित्या उपकारकमनुप्राणकम् । अपृथक्स्थित्या प्रयोजकं उप-
सर्जनम् । पृथक्स्थित्या प्रयोजकमङ्गम् । एतद्विलक्षणं संसृष्टिरित्यालङ्कारिक-
मतरहस्यम् । एतच्च पूर्वमुक्तमपि स्पष्टार्थं पुनः प्रतिपादितमिति ॥ ५९ ॥
 
सरस्वत्याः सूक्तीरमृतलहरी कौशलहरीः
 
पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो
 
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६० ॥
 
सरस्वत्याः भारत्याः, सूक्ती: मधुरवचांसि, अमृतलहरी कौशलहरीः
अमृतलहर्याः सुधाप्रवाहोत्सेकस्य कौशलं सौभाग्यं हरन्तीति ताः । हरिशब्दः
औणादिको निप्रत्ययान्तः, 'कृदिकारादतिनो वा ङीष् वक्तव्यः' इति
ङीष् । पिबन्त्याः धयन्त्याः, शर्वाणि ! शर्वस्य परमेश्वरस्य पनि !
श्रवणचुलुकाभ्यां चुलुकं प्रसृत्य श्रवणे श्रोत्रे चुलुके ताभ्यां अविरलं
यथा भवति तथा, सावधानेनेत्यर्थः । चमत्कारश्लाघाचलितशिरसः
 
1 तावेव.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri