This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
अत्रेत्यं पदयोजना - हे अगराजन्यतनये ! ते पालीयुगलमरालं कुसुम-
शरकोदण्डकुतुकं केषां नाधत्ते । यद्यस्मात् यत्र तिरश्चीन: विलसन् अपाङ्ग-
व्यासङ्गः श्रवणपथ मुल्लङ्घ्य शरसन्धानधिषणां दिशति ॥
 
१४६
 
.
 
अत्र भ्रान्तिमदलङ्कारः ; अपाङ्गे संहितशरवान्तेरुत्थानात् । पाली-
युगले कुसुमशरकोदण्डबुद्धिः निश्चयात्मिका संशयपूर्विकेति सन्देहालङ्कार
एव । अनयोरङ्गाङ्गिभावेन सङ्करः ॥ ५८ ॥
 
स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।
यमारुह्य द्रुह्मत्यवनिरथमर्केन्दुचरणं
 
महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥
 
स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं स्फुरन्तौ च तौ गण्डाभोगौ
च गण्डस्थले दर्पणवन्निर्मलावित्यर्थः । तत्र प्रतिफलिंत प्रतिबिम्बितं ताटङ्क-
युगलं यस्य सः तं चतुश्चक्रं चत्वारि चक्राणि रथचरणानि यस्य तं चतुश्चक्रं,
मन्ये शङ्के । तव भवत्या, मुखं आस्यं, इदं हृदयकमले परिदृश्यमानं,
मन्मथरथं मदनस्य स्यन्दनं, यं रथं, आरुह्य अधिष्ठाय, द्रुह्यति अपराध्यति
विघ्यतीति यावत् । अवनिरथं, भूमिरथं अर्केन्दुचरणं अर्केन्दू सूर्यचन्द्रौ
तावेब चरणौ यस्य सः, महावीरः चतुश्चक्ररथारोहणमहिम्ना अप्रतिहत-
प्रतापः, मारः मन्मथः, प्रमथपतये त्रिपुरान्तकाय, सज्जितवते सज्जं कुर्वते
सन्नद्धं कुर्वत इत्यर्थः ॥
 
अत्रेत्थं पदयोजना — हे भगवति । तव इदं मुख स्फुरद्गण्डाभोगप्रति-
फलितताटङ्कयुगलं चतुश्चक्रं मन्मथरथं मन्ये । यमारुह्य मारः महावीरः सन्
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri 1