This page has not been fully proofread.

xvii
 
मन्त्रा विनष्टा अभवन् किमेतदिति चाकुलः ।
द्रष्टुं तदा स्तोत्रकृतं विचिन्वन् प्रययौ वने ॥
बिलद्वारे स्थितं दिव्यं मुक्तामणिविभूषितम् ।
किरीटरत्नसंघातसमुल्लसितकाननम् ।
ददर्श मुनिवर्यस्तं प्रणिपत्य पुरः स्थितम् ।
तदा मन्त्रान् बुबोधाथ गतोऽयं नियमाय वै ॥
तदानीं मृगयां जग्मुः द्रमिलास्तत्र मानवाः ।
हयमारोग्य नृपतिं ते राष्ट्रं पुनरागताः ॥
 
. धन्या कन्या रूपवती शुभा ॥
तस्याः पुत्रोsहमन्विच्छन् स्तुतिव्याख्यां करोमि ताम् ॥
सुधाविद्योतिनीं नाम्ना पित्रा सम्यक् प्रबोधितः ॥" इति ॥
लक्ष्मीधरस्तु शङ्करभगवत्पादकृतामिमां स्तुतिमभिदघे। परन्तु सोऽपि
शैशव एवं शङ्कराचार्यकृतेयं स्तुतिरित्यनुमनुते । – यतः - तेन पञ्चसप्ततितमस्य-
पद्यस्य व्याख्यायां 'द्रविलशिशुः-द्रविलजातिसमुद्भवः बालः एतत्स्तोत्रकर्ता'
इति उक्तवान् ॥
 
सौभाग्यवर्धिनी नामकटीकाकर्तापि 'द्रविडशिशुः मल्लक्षणः' इति
विवृण्वन् एवमाख्यायिकामाह -
 
अत्रेयं चिरन्तनाख्यायिका – भगमतः शङ्कराचार्यस्य पिता सन्तत
परमेश्वरीभक्तः, ग्रामाद्वहि; परमेश्वर्या आयतनं गत्वा, दुग्धेन परमेश्वरीं संस्त्राप्य,
पूजां विधाय, नमस्कृत्य, अवशिष्टं किंचिदुग्धं सङ्गे गताय सूनवे शङ्कराचार्याय
प्रयच्छति । बालकस्य मनसि 'प्रत्यहं परमेश्वरी स्वयं पिबति, पीतशेषं मरं
पिता ददाति' इति मतिर्जागर्ति । कदाचिह्नामान्तरं गच्छन् बालकस्य मात
प्रत्युक्त्वा गतः 'प्रत्यर्हे मदागमनं यावत् तावत् त्वया दुग्धेन स्खपनीया भगवती
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri