This page has not been fully proofread.

अष्टपञ्चाशः श्लोकः
 
१४५
 
जनः अहमित्यर्थः । धन्यो भवति कृताथों भवति । न च ते तव, हानिः
द्रव्यनाशः इयता साधारणदर्शनमात्रेण, वने वा अरण्ये वा, हर्म्ये प्रासादे
वा, समकरनिपातः समं तुल्यं यथा भवति तथा कराणां किरणानां निपातः
व्यापनं यस्य स तथोक्तः । हिमकरः शीतरश्मिः ॥
 
अत्रेत्थं पदयोजना - हे शिवे ! द्वाघीयस्या दरदलितनीलोत्पलरुचा दृशा
दवीयांसं दीनं कृपया मामपि रुपय अयं अनेन धन्यो भवति । इयता ते
हानिर्न च । तथा हि-हिमकरः बने वा हर्म्ये वा समकरनिपातो हि ।
स्वच्छान्तःकरणानां सर्वसाधारण्यं स्वभावसिद्धमिति भावः ॥
 
अर्थान्तरन्यासोऽलङ्कारः; सामान्येन विशेषसमर्थनात् । सर्वसाधारण्य -
दर्शनं सर्वोत्कृष्टत्वे हेतुरिति नात्मीयतादर्शनापेक्षा अस्तीति ध्वनिः ॥ ५७ ॥
 
अरालं ते पालीयुगलमगराजन्यतनये
न केपामाधत्ते कुसुमशरकोदण्ड कुतुकम् ।
तिरश्चीनो यत्र श्रवणपथमुल्लङ्घय विलसन्
 
अपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणाम् ॥ ५८ ॥
 
अरालं कुटिलं, ते पालीयुगलं कर्णयुगलनयनयुगलयोर्मध्यं,
अगराजन्यतनये ! नगेन्द्रतनये ! न केषामाधत्ते सर्वेषां करोत्येव ।
कुसुमशरकोदण्डकुतुकं मन्मथचापसौभाग्यं, तिरचीनः तिर्यक्प्रसारितः,
यत्र पालीयुगले, श्रवणपथ मुल्लङ्घ्य कर्णान्तिकं प्राप्य, विलसन् स्फुरन्,
अपाङ्गव्यासङ्गः अपाङ्गस्य कटाक्षस्य व्यासङ्गः दैर्ध्य, दिशति करोति ;
शरसन्धान घिषणां शरसन्धानस्य बाणसंयोजनस्य घिषणां बुद्धिं तद्भ्रान्ति
संहितशेरधिषणामिति यावत् ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
10