This page has not been fully proofread.

१४४
 
सौन्दर्यलहरी सभ्याख्या
 
लक्ष्म्याः नेत्रं विहाय इन्दीवरेषु भक्तयतिशयात् रात्रौ तद्रक्षणार्थं तद्गमीन्तर्व-
र्तित्वं, दिवा तद्विहाय नेत्रवंर्तित्वं असंभवीति असंबन्धे संबन्धनिबन्धनात् ।
इन्दीवरस्य रात्रौ विकासः स्वभावसिद्धः, दिवा मुकुलीभावश्च । एतद्द्वयस्य
लक्ष्मीकृतत्वासंबन्धेऽपि संबन्धकथनात् अतिशयोक्त्यन्तरम् । उभयोरनु-
सृष्टिः । अनुसृष्टिलक्षणं पूर्वमेवोक्तम् * । अत्र इन्दीवरस्य रात्रौ विकासः,
नेत्रद्वयस्य दिवा विकासः । अतश्च दिवा लक्ष्मीः नेत्रे वसति, रात्रौ कुवलये ।
एवं लक्ष्मीः नक्तंदिवमुभयत्रैव चरति नान्यत्रेति । शफरीप्रभृतीनां लोके
नेत्रोपमानवस्तूनां भगवतीनेत्रतुल्यता नास्तीति शफरिकाणामुदकमध्यविलीन-
त्वमेव युक्तमिति काव्यलिङ्गध्वनिरित्यलङ्कारध्वनिः ॥ ५६ ॥
 
दृशा द्राघीयस्था दरदलितनीलोत्पलरुचा
 
दवीयांस दीनं स्नपय कृपगा मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
 
बने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७ ॥
 
*
 
दृशा कटाक्षदृष्टया, द्राषीयस्या दीर्घतरया, दरदलितनीलोत्पलरुचा दरद-
लितमीषद्विकसिंत नीलोत्पलं इन्दीवरं तस्येव रुचिः कान्तिर्यस्याः तया, दवीयांसं
दूरवर्तिनम् । दूरशब्दस्य 'स्थूलदूर' इत्यादिना मूत्रेण यणो लोपः, पूर्ववर्णस्य
गुणे कृते अवादेशे कृते सिद्धं रूपं दवीयानिति ईयसुन्प्रत्ययान्तम् । दीनं
दरिद्रं, स्नपय स्नपनं कुरु । कृपया दयया, मामपि इतरजनसाधारण्यमपि -
शब्दार्थः । शिवे ! मङ्गळात्मिके ! अनेन एतावन्मात्रेण स्रूपनेनापि, अयं
 
४७ श्लोकण्याख्यायाम्.
 
-
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri