This page has not been fully proofread.

षट्पञ्चाशः श्लोक:
तवापर्णे कर्णेजपनयनपैशुन्यचकिताः
 
१४३
 
निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।
 
इयं च श्रीर्बद्धच्छदपुटकबाटं कुवलयं
 
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६ ॥
 
तव भवत्याः, अपर्णे! पार्वति ! कर्णेजपनयनपैशुन्यचकिताः
कर्णेजपे कर्णसमीपं सदा गते नयने ताभ्यां यत्करिष्यमाणं पैशुन्यं पिशुन-
भावः, मर्मोद्घाटनं तस्माच्चकिताः, निलीयन्ते आकारगोपनेन स्थिताः इत्यर्थः।
तोये उदके, नियतं निश्चयः, अनिमेषा: निमेषरहिताः शफरिकाः मीन-
योषितः, इयं च परिदृश्यमाना नेत्रगता, श्री लक्ष्मीः, बद्धच्छदपुटकवाटं
बद्धं संकलित छदपुटा एव कवाटं यस्य तत् कवाटसङ्घटितगृहमिव वर्तत
इत्यर्थः । कुवलयं इन्दीवरं, जहाति त्यजति । प्रत्यूषे उषःकाले, निशि च
रात्रौ च, विघटय्य प्रविशति संविशति ॥
 
अत्रेत्थं पदयोजना — हे अपर्णे । तव कर्णेजपनयनपैशुन्यचकिताः
शफरिकाः अनिमेषास्तोये निलीयन्ते नियतम् । किञ्च – इयं च श्रीः
बद्धच्छदपुटकवाटं कुवलयं प्रत्यूषे जहाति निशि च तत् विघटय्य प्रविशति ॥
 
अयमर्थः—लोके नेत्रसमं वस्तु शफरिका इन्दीवराणीति, एतद्वित-
यसमं नेत्रमिति च सुप्रसिद्धं उभयोः साम्यं, अत्र कविः-नेत्रसौभाग्यं
फरका इन्दीवरेषु च वर्तते, तत्सौभाग्यमाहर्तुकामं नेत्रद्वयं तत्र
पैशुन्यं करोतीममर्थमवलम्ब्योत्प्रेक्षते ॥
 
अत्र पूर्वार्षे उत्प्रेक्षालङ्कारः, शफरिकाणां जलाधिवासः, अनिमेषत्वं च
स्वभावसिद्धम्, तदन्यथात्वेनोत्प्रेक्षणात् । द्वितीयार्धे अतिशयोक्तिः; नेत्र-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri