This page has not been fully proofread.

१४२
 
सौन्दर्यलहरी सभ्याख्या
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
 
परित्रातुं शक्के परिहृतनिमेषास्तव दृशः ॥ ५५ ॥
 
निमेषो नाम पक्ष्मणां मुकुलीभावः, अत्र उन्मेषो नाम नयने
पक्ष्मविक्रासः, ताभ्यां यथाक्रमं, प्रलयं संहारं उदयं उद्भवं, याति प्राप्नोति ।
जगती जगत् तब भवत्याः, इति एवं आहुः ब्रुवते । 'ब्रुवः पञ्चानामादितः'
इत्यादिना आहादेशः । सन्तः सत्पुरुषाः व्यासादयः । दृष्टिसृष्टिवादिमते
ज्ञानव्यतिरेकेण ज्ञेयाभावात् निमेषोन्मेषाभ्यामित्युक्तेराञ्जस्यमिति ध्येयम् ।
धरणिधरराजन्यतनये ! हिमाचलपुत्रिके ! त्वदुन्मेषात् तव पक्ष्मस्पन्दात्,
जातं जगत् भुवनं, इदं परिदृश्यमानं अशेषं कृत्स्नं, प्रलयतः महासंहारात्,
परित्रातुं रक्षितुं, शङ्के'। परिहृतनिषा: तिरस्कृताक्षिस्पन्दाः, तव दृश:
नयनानि ॥
 
अत्रेत्थं पदयोजना- घरणिधरराजन्यतनये ! तव निमेषोन्मेषाभ्यां
जगती प्रलयमुदयं यातीति सन्तः आहुः । अतः त्वदुन्मेषात् जातं अशेषं
इदं जगत् प्रलयतः परित्रातुं तव दृशः परिहृतनिमेषाः इति शङ्के ।
 
अत्रोत्प्रेक्षालङ्कारः। देवतानामनिमेषत्वं स्वभावसिद्धम् ; तच्च जगत्संरक्ष-
णार्थमिति फत्वेनोत्प्रेक्षणात् फलोत्प्रेक्षा । तत्र निमेषोन्मेषदशायां तौ
जगदुत्पत्तिलयाविति देव्याः महिमा अवाङ्मनसगोचर इति वस्तु ध्वन्यते ।
अतः अलङ्कारेण वस्तुध्वनिः ॥ ५५ ॥
 
1
 
शङ्के मन्ये.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri