This page has not been fully proofread.

'चतुःपञ्चाशः श्लोक:
पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
 
दयामित्रैनैत्रैररुणधवलश्यामरुचिभिः ।
 
नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं
 
त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४ ॥
 
एतदेव त्रैवर्ण्य पुनरुत्प्रेक्ष्यते - पवित्रीकर्तुं अपवित्रान् पवित्रान्
संपद्यमानान् कर्तुं 'अभूततद्भावे सम्पद्यकर्तरि च्विः' । नः अस्मान्,
पशुपतिपराधीनहृदये ! हरायत्तचित्त ! दयामित्रैः दयाः, नेत्रैः
अरुणधवलश्यामरुचिभिः प्रत्येकमिति शेषः । नदः 'पुंप्रवाह: शोण:
हिरण्यवाहः, सतु रक्तवर्णः, गङ्गा भागीरथी श्वेतवर्णा, तपनतनया कालिन्दी
नीलवर्णा इति कविप्रसिद्धिः । इति एवं, ध्रुवं सत्यं, अर्मु परिदृश्यमानं,
त्रयाणां तीर्थानां जलावताराणां, संभेदं नदीसङ्गमं, उपनयसि संपादयसि ।
अनघं अघापनोदकम् ॥
 
अत्रेत्थं पदयोजना-हे पशुपतिपराधीनहृदये ! दयामित्रैः अरुणधवल-
श्यामरुचिमिः नेत्रैः शोणो नदो गङ्गा तपनतनयेति त्रयाणां तीर्थानां अमुं
अनघं संभेदं नः पवित्रीकर्तु उपनयसि ध्रुवम् । भक्तवत्सलत्वाद्देन्या इति
 
भावः ॥
 
१४१
 
अत्रोत्प्रेक्षालङ्कारः; स्वभावसिद्धस्य नयनगतरेखात्रितयस्य सितासित-
• रक्तवर्णात्मकस्य गङ्गायमुनाशोणसङ्गमत्वेनोत्प्रेक्षणात् ॥ ५४ ॥
 
1
 
पुण्यप्रवाह:.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri