2023-02-16 08:26:29 by ambuda-bot
This page has not been fully proofread.
सौन्दर्यलहरी सब्याख्या
१४०
तब नेत्राणां त्रितयं, इदं परिदृश्यमानं, ईशानदयिते ईशानस्य महादेवस्य
दयिता प्रेयसी तस्यास्सम्बुद्धिः, पुनः स्रष्टुं गतब्रह्माण्डानन्तरमस्मिन् ब्रह्माण्डे
भूयो निर्मातुं, देवान् देवनधर्मयुक्तान्, 'द्रुहिणहरिरुद्रानुपरतान् आत्मनि
विलीनान्, रजः रजोगुणः, सत्त्वं सत्त्वगुणः, बिभ्रत् दधत्, तमः तमोगुणः,
इति एवं गुणानां सत्त्वरजस्तमः संज्ञिकानां, त्रयं त्रितयं, इव ॥
अत्रेत्यं पदयोजना — हे ईशानदयितें ! इदं त्वन्नेत्रत्रितयं व्यतिक-
रितलीलाञ्जनतया विभक्तत्रैवर्ण्य उपरतान् द्रुहिणहरिरुद्वान् देवान् पुनः स्रष्टुं
रजः सत्त्वं तम इति गुणानां त्रयमिव बिअत् विभाति ॥
अत्र सत्त्वगुण; श्वेतवर्ण: रजोगुणो रक्तवर्णः तमोगुणो नीलवर्णः इति
कविप्रसिद्धिः । तम इति निपातेनाप्यमिहिते कर्मणि न कर्मविभक्तिः ;
परिगणनस्य प्रायिकत्वादिति निपातेतिशब्देना भिधानात् रजःसत्त्वतमःशब्दा:
प्रथमान्ताः । यद्वा - द्वितीयान्ताः; निपाताभिधानस्य प्रायिकत्वात् । यथोक्तं
वाग्भटेन -
-
हिंसा स्तेयान्यथाकामं पैशुन्यं पुरुषानृते ।
संभिन्नालापव्यापादमभिध्यां हग्विपर्ययम् ॥
पापं कर्मेति दशधा कायवाच्यसैस्त्यजेत् । इति ।
अत्र उत्प्रेक्षालङ्कारः, नयनगतस्य श्वेतरक्तनीलरेखात्रितयस्य सत्त्वरज-
स्तमोगुणुत्वेनोत्प्रेक्षणात् । अत्र मगवत्याः नयनाञ्जनदर्शनादेव सृष्टिस्थितिलया
इति महानतिशयो ध्वन्यत इत्यलङ्कारेण वस्तुध्वनिः ॥ ५३ ॥
बहिणहरिरुद्रान् ब्रह्मविष्णुमहेश्वरान् उपरतान्.
1
CC-0. Jangamwadi Math Collection. Digitized by eGangotri