This page has not been fully proofread.

त्रिपञ्चाशः श्लोक:
 
१३९
 
आकर्णाकृष्टस्मरशरबिलासं
 
कर्णपर्यन्तमाकृष्टयोः स्मरशरयोः मन्मथबाणयोः
बिलास सौभाग्यं कलयतः कुरुतः । लट्रपरस्मैपदद्विवचनान्तम् ॥
 
अत्रेत्थं पदयोजना — हे गोत्राधरपतिकुलोत्तंसकलिके ! तब इमे नेत्रे
कर्णाभ्यर्ण गते पक्ष्माणि गरुत इव दधती पुरां मेत्तुः चित्तप्रशमरसविद्रावण-
फले आकर्णाकृष्टस्मरशरविलासं कलयतः ॥
 
अयमर्थः–
पञ्चबाणस्य स्त्रीणां कटाक्षः षहो बाणः । पञ्चचाण इति
प्रसिद्धः प्राचुर्याभिप्रायेणे । कटाक्षात्मकबाणो बाणपञ्चकतुल्य इति न षट्-
ब्राण इति व्यवहारः ॥
 
अत्र निदर्शनालङ्कारः; स्मरशरविलाससहशविलासकरणप्रतिभानात्
प्रतिबिम्बाक्षेपात् ॥ ५२ ॥
 
विभक्तत्रैवर्ण्य व्यतिकरितलीलाञ्जनतया
विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।
पुनः स्रष्टुं देवान् द्रहिणहरिरुद्रानुपरतान्
 
रजः सत्त्वं विभ्रत्तम इति गुणानां त्रयमिव ॥ ५३॥
 
विभक्तत्रैवर्ण्य विभक्तं परस्परासङ्कीर्ण त्रैवर्ण्य त्रयो वर्णाः सितासित
रक्ताः यस्येति बहुव्रीहिः, स्वार्थं प्यञ् । महाभाग्यपुरुषाणां नयने रक्तरेखा:
• सन्ति, नयनगोलद्वयं श्वेतम्, यद्यपि कनीनिका नीला, तथापि तृतीयनयने कनी-
• निकाया: नैल्या भावात् इत्याह-व्यतिकरितलीलाञ्जनतया इति। व्यतिकरितं
संबलिंत लीलार्थ विलासार्थ घृतं अञ्जनं यस्य तत् तस्य भावस्तत्ता तया ।
तृतीयनयनगोलस्य श्वैत्यमङ्गीकृत्योक्तम् । विभाति विराजते। त्वनेत्रत्रितयं
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri