This page has not been fully proofread.

सौन्दर्यलहरी सब्याख्या
 
अत्र परस्पर विरुद्धानां रसानां एकत्र नयने समावेशकथनात् विरोधा-
लङ्कारः ; अवस्थामेदेन परिहारात् तस्य विरोधस्य आभासत्वम् । तल्लक्षणं-
'विरोधाभासो विरोधः' इति । विक्रियाजनका एव रसा इति अष्टौ रसाः ।
भरतमते-
१३८
 
-
 
शान्तस्य निर्विकारत्वान्न शान्तं मेनिरे रसम् ।
 
इति शान्तस्य रसत्वाभावात् अष्टावेव रसाः सङ्गृहीताः ॥ ५१ ॥
 
1
 
गते कर्णाभ्यर्ण गरुत इव पक्ष्माणि दधती
पुरां मेत्तश्चिचप्रशमरसविद्रावणफले ।
इमे नेत्रे गोत्राधरपतिकुलोचंसकलिके
 
तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ ५२ ॥
 
गते प्राप्ते, कर्णाभ्यणं कर्णयोः समीपं, गरुत इव कङ्कपत्राणीव,
पक्ष्माणि दधती । पुरां पुराणां भेत्तुः भेदकस्य, चित्तप्रशमरसविद्रावण-
फले चित्त अन्तःकरणे प्रशमरसः' नैस्पृह्यमित्यर्थः, तस्य विद्रावणं विनाशनं
शृङ्गाररसोत्पादनमिति यावत्, तदेव फलं प्रयोजनं ययोस्ते चित्तप्रशमरस-
विद्रावणंफले। अत्र फलशब्देन अध्यवसितेन अयोमयी बाणाग्रसूची कथ्यते ।
इमे हृदयाम्बुजे परिदृश्यमाने, नेत्रे नयने, गोत्राधरपतिकुलोत्तंसकलिके!
गोत्रा भूमिः, धरतीति घरः पचाद्यच्, गोत्रायाः धरो गोत्राधरः, अन्यथा
गोत्रां धारयतीति विग्रहे कर्मण्यणि प्राप्तौ गोत्राधार इति स्यात् । अनेनैवामि-
प्रायेण शक्तिघर इत्यत्र शक्तेः धरः शक्तिधरः इत्युक्तं क्षीरस्वामिना। गोत्राधर-
पतिः हिमवान् तस्य कुलोत्तंसकलिका कोरकः तस्याः सम्बुद्धिः । तव भवत्याः,
 
शन्तरस इत्यधिकः.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri