This page has not been fully proofread.

एकपञ्चाशः लोकः
 
शिवे शृङ्गाराद्री तदितरजने कुत्सनपरा
 
सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।
 
हराहिभ्यो भीता सरसिरुहसौभाग्यजननी
 
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ ५१ ॥
 
शिवे सदाशिवे, शृङ्गारार्द्रा शृङ्गारेण शृङ्गाररसेन आर्द्रा आप्लुता,
तदितरजने तस्मात् सदाशिवात् इतरजने तद्विषये कुत्सनपरा बीभत्सरसा-
विष्टा । अत्र कुत्सनं बीभत्सरसास्वादनजन्यान्तःकरणमुकुलीभावः कार्यकारण-
योरभेदेन रसत्वेनोपचरितः । सरोषा रौद्ररसाविष्टा, रोषस्य स्थायिभावस्य
रसत्वोक्तिरुपचारात् । गङ्गायां सपत्न्यामिति शेषः । गिरिशचरिते
त्रिपुरविजयादौ, विस्मयवति अद्भुतरसाविष्टा, 'गिरिशेनयने' इति पाठे
तृतीयनयनेनैव मन्मथदहनम् तादृशनयन एव इदानीं साकूतदर्शनमित्य-
द्भुतमिति ध्येयम् । हराहिभ्यः हरस्य परमेश्वरस्य अहिभ्यः सर्पेभ्यः,
भीता भयरसाविष्टा, सरसिरुहसौभाग्यजननी सरसिरुहाणां सौभाग्यं
रक्तिमा तस्य जननी उत्पादिका कोकनदकान्तिः, रक्तवर्णा वीररसाविष्टे-
त्यर्थः । अत्र अनुभावेन नयनरक्तिम्ना वीररसो ध्वनितः । सखीषु वयस्यालु
स्मेरा स्तब्धकनीनिका, अत्राप्यनुभावेन हास्यरसो ध्वन्यते । ते तव, मयि
जननि ! हे मातः ! दृष्टिः सकरुणा करुणरसाविष्टा ॥
 
>
 
अत्रेत्थं पदयोजना–हे जननि ! ते दृष्टिः शिवे शृङ्गारार्द्रा, तदितर-
जने कुत्सनपरा, गङ्गायां सरोषा, गिरिशचरिते विस्मयवती, हराहिभ्यो
मीता, सरसिरुहसौभाग्यजननी, सखीषु स्मेरा, मयि सकरुणा ॥
 
1
 
१३७
 
गिरिशनयनयोर्विस्मयवती.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri