2023-02-16 08:26:28 by ambuda-bot
This page has not been fully proofread.
सौन्दर्यलहरी सब्याख्या
,
वेव व्याक्षेपौ व्याजौ ययोस्तौ तौ च तौ भ्रमरकलभौ चेति समासः ।
भ्रमरकलभौ द्विरेफडिम्भौ । अत्र यद्यपि कलभशब्दः करिडिम्भवचनः,
महाकविप्रयोगप्राचुर्यवशात् विशेषणसमान्यलक्षणा भ्रमरकलभाविति । कर्ण-
युगलं कर्णयोः श्रवणयोः युग्मं, अमुञ्चन्तौ रसास्वादलम्पटतया अत्यजन्तौ
दृष्ट्वा, तृतीयस्य नयनस्य ऊर्ध्वस्थितत्वात् । तव नवरसास्वादतरलौ नवरसाः
शृङ्गारादयः नवत्वसङ्ख्यायुक्ताः रसाः नवरसाः शाकपार्थिवादित्वादुत्तरपदलोपः;
अन्यथा 'द्विगो:' इति ङीषि कृते नवरसी इति स्यात् । नवरसानामा -
स्वादे भोगे तरलौ लम्पटौ, असूयासंसर्गात् असूया ईर्ष्या तस्याः संसर्गः
सम्बन्धः तस्मात्, अलिकनयनं निटिलनेत्रं, किञ्चिदरुणं किञ्चित्कोपादि-
वारुणम् ॥
अत्रेत्थं पदयोजना–हे भगवति ! कवीनां सन्दर्भस्तबकम करन्दैक-
रसिकं तव कर्णयुगलं कटाक्षव्याक्षेपभ्रमरकलमौ नवरसास्वादतरलौ अमुञ्चन्तौ
दृष्ट्वा असूयासंसर्गात् अलिकनयनं किञ्चिदरुणम् ॥
अयमर्थः—–नयनत्रयमध्ये द्वयोरमृतपाने सिद्धे एकस्य नयनस्य असूया
युज्यते । आकर्णान्तनेत्रा भगवती इति वस्तुध्वनिः ॥
अत्र अतिशयोक्तिरलङ्कारः; श्रवणयोः * काव्यामृतास्वादसबन्धाभावे-
ऽपि सम्बन्धकथनात् । भ्रमरकलमा वित्यत्र अपहवालङ्कारः । यद्धा-रूपकं,
कटाक्षव्याक्षेपः कटाक्षात्मतया अवस्थितिरिति व्याख्येयम् । अतिशयोक्तय-
न्तरमपि, भ्रमरकलभयोः मकरन्दास्वादांसंबन्धेऽपि सम्बन्धकथनात् । कवि-
कृतवस्तुकृतसौन्दर्ययोरमेदाध्यवसायात् अतिशयोक्तयोरनुप्राण्यानुप्राणेकभावः
संम्बन्धः । अपह्नवस्तु अङ्गभावेन सङ्कीर्णः ॥ ५० ॥
* नेक्र्योः श्रवणगत इति कल्याणपुर मुद्रितकोशपाठ;-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri