This page has not been fully proofread.

पञ्चाशः श्लोकः
 
१३५
 
-
 
1
 
अत्रेदमनुसन्धेयम् – विशालाप्रभृतयो विजयान्ताः अष्ट नगर्यः
अष्ट दृष्टयश्च; विशाला नाम दृष्टिः अन्तर्विकासरूपा । कल्याणीदृष्टिर्विस्मिता ।
अयोध्यादृष्टिः स्मेरकनीनिका । धारादृष्टि: अलसा । मधुरादृष्टिः वलिता ।
भोगवतीदृष्टिः स्निग्धा । अवन्तीदृष्टि: मुग्धा । विजयादृष्टिः प्रान्तकनीनिका
आकेकराख्या दृष्टिः । एता अष्ट दृष्टयः सर्वयोपित्समानाः । भगवत्यां तु
विशेष:- एताः दृष्टयः यथाक्रमं संक्षोभाकर्षणद्रावणोन्मादवश्पोच्चाटन विद्वेषण-
मारणक्रियासु संभिन्नाः ॥
 
एतदुक्तं भवति – भगवती यत्र प्रदेशे स्थित्वा अन्तर्विकासयुक्त-
तया विशालाख्यया दृष्टया जनसंक्षोभमकरोत् स देशो विशालानगरी । यत्र
प्रदेशे स्थित्वा सा आकेकरया दृष्ट्या विजयाख्या शत्रुमारणमकरोत् स
देशो विजयानगरी एवं मध्यवर्तिनीनां षण्णां पुरां नामधेयान्यूह्यानि ।
यथोक्तं भगवत्पादैः–
विशालाद्याः भगवत्याः दृष्टिविशेषाः संक्षोभादिकर्म-
साधनभूताः अन्तर्विकासादिरूपाश्चति सर्वमनवद्यमिति । एतदेव स्पष्टीकृतं
तद्व्याख्याकारैः । तत् तत एव अवधार्यम् ॥ ४९ ॥
 
-
 
कवीनां सन्दर्भस्तबकमकरन्दैकरसिकं
कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् ।
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरलौ
 
असूयासंसर्गादलिकनयनं किञ्चिदरुणम् ॥ ५० ॥
 
कवीनां कवीश्वराणां, सन्दर्भस्तबकम करन्दैकरसिकं सन्दर्भः काव्य-
सन्दर्भः स एव स्तबकः पुष्पगुच्छं तत्र मकरन्दे एकं मुख्यं रसिकं मुख्य-
रसिकं काव्यामृतास्वादैकरसिकमित्यर्थः । कटाक्षव्याक्षेपभ्रमरकलभौ कटाक्षा-
' विलसिता.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri