This page has not been fully proofread.

१३४
 
सौन्दर्यलहरी सव्याख्या
 
इति वाच्यमानत्वात् । दरदलितहेमाम्बुजरुचिरित्यनेन अग्भिनेत्रत्वं ध्वयन्ते ।
अयमनुप्राणनात्मकः मध्यमोत्तमकाव्यप्रयो जकध्वन्योः संसृष्टिः । संसृज्यमानं
व्यङ्ग्यद्वयं प्रधानध्वनिना अङ्गाङ्गिभावेन सङ्कीर्यत इति दिक् ॥ ४८ ॥
 
विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः
 
कृपाधाराऽऽधारा किमपि मधुराऽऽभोगवतिका ।
अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया
 
ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ ४९ ॥
 
विशाला विपुला, कल्याणी मङ्गलात्मिका, स्फुटरुचिः प्रस्फुट-
कान्तिः, अयोध्या योद्धुमशक्या, कुवलयैः इन्दीवरै:, कृपाधाराऽऽधारा
कृपाघाराणां करुणाप्रवाहाणां आधारभूता । आधारशब्दस्य कर्मणि घञन्त-
त्वात् विशेष्यनिघ्नत्वेन रूपकत्वम् । किमपि मधुरा अव्यक्तमधुरा,
आभोगवतिका आभोगः अन्तःपरिणाहः दैर्ध्यमिति यावत् । अवन्ती
रक्षका, दृष्टिः ते नयनं बहुनगरविस्तारविजया बहूनां नगराणां विस्तारेण
सामस्त्येन विजया स्फुरन्ती, ध्रुवं निश्चयः । तत्तन्नामव्यवहरणयोग्या तानि
तानि च नामानि तत्तन्नामानि विशाला-कल्याणी-अयोध्या-घारा-मधुरा-भोगवती-
अवन्ती-विजया-इत्थष्ट नगरनामानि, तैः तद्व्यवहरणं व्यवहारः तत्र योग्या,
विजयते सर्वोत्कर्षेण वर्तते ॥
 
अत्रेत्थं पदयोजना–हे भगवति । ते दृष्टिः विशाला कल्याणी
स्फुटरुचिः कुवलयैः अयोध्या कृपाधाराssधारा किमपि मधुरा आभोग-
बतिका अवन्ती बहुनगरविस्तारविजया तत्तन्नामव्यवहरणयोग्या ध्रुवं विजयते ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri