This page has not been fully proofread.

अष्टचत्वारिंशः श्लोकः
 
अतिशयोक्तिः । अनयोः सन्देहः सङ्करः ॥ १७ ॥
 
अहः सूते सव्यं तव नयनमर्कात्मकतया
 
त्रियामां वामं ते सृजति रजनीनायक' तथा ।
तृतीया ते दृष्टिदरदलितहेमाम्बुजरुचिः
 
समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम् ॥ ४८ ॥
 
अहः दिवसं सूते जनयति । सव्यं दक्षिणं, तव नयनं नेत्रं,
अर्कात्मकतया सूर्यात्मकतया, त्रियामां रात्रिं वामं सन्येतरं, ते तव,
सृजति सूते, 'रजनीनायकतया चन्द्रात्मकतया । तृतीया निटिलस्थिता,
ते तब, दृष्टि: दरदलितहेमाम्बुजरुचिः दरदलितमीषद्विकसितं हेमाम्बुजं
'रक्ताम्बुजं तस्येव रुचियस्याः सा, समाधत्ते सम्यगाधत्ते करोति, दिवस-
निशयोः अहोरात्रयोः, अन्तरचरीं मध्यवर्तिनीं, सन्ध्याम् सायंप्रातरा-
-
त्मकसन्ध्याकालद्वितयस्य अग्निहोत्रसाध्यत्वादिति भावः ॥
 
3
 
अत्रेत्थं पदयोजना - हे भगवति ! तव सव्यं नयनं अर्कात्मकतया
अहः सूते वामं नयनं रजनीनायक तथा त्रियामां सृजति । ते तृतीया
दृष्टिः दरदलितहेमाम्बुजरुचिः दिवसनिशयोः अन्तरचरीं सन्ध्यां समाधत्ते ॥
 
अत्र सूर्यचन्द्राग्न्यात्मकनयनत्रयेणे भगवत्याः 'अवयवविशेषण दिवस-
निशासन्ध्यात्मककालत्रयोपलक्षितपक्षमासर्तुयुगकल्पादिकालोत्पत्तिकथनात् भग-
वत्याः कालाबच्छेद्यत्वं दूरत एवापास्तमिति ध्वन्यते । इदमुत्तमं
काव्यम् । मध्यमकाव्यताप्रतीतिरपि, 'अर्कात्मतया' 'रजनीनायकमयम्'
 
• मयं सद्
 
1 भयम्.
 
त्रिपामां रात्रिम्.
 
१३३
 
: रजनीनायकमयं चन्द्रात्मकम् सुवर्णकमलम्.
5 अवयवरूपेण .
 
3
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri