This page has not been fully proofread.

सौन्दर्यलहरी सब्याख्या
 
अयं भावः– विशेषणं चतुर्विधम्, व्यावर्तकविशेषणं, उपरञ्जक-
विशेषणं, उपलक्षणविशेषणं, उपधानविशेषणं चेति । तत्र व्यावर्तकविशेषणं
नीलोत्पलमित्यादौ, तत्र नैल्यस्य श्वेतादिव्यावर्तकत्वात् । उपरञ्जकविशेषणं
द्विविधम् - उपरञ्जनस्य आरोपविषयगोचरत्वेन, आरोप्यमाणगोचरत्वेन चेति ।
तत्र आरोपविषयगोचरत्वं 'मुखं चन्द्रः' इत्यादौ । तत्र चन्द्रत्वेन मुखस्य
उपरञ्जनम् । अत एव लिङ्गभेदेऽपि विशेषणविशेष्यभावः
सिद्धः ।
'स तदुच्चकुचौ भवन्' इति नैषधे । तत्र सः इति कलश एकः द्वौ
कुचौ, उभयोर्विषणविशेष्यभावः । आरोप्यमाणविशेषणं तु - 'तिरस्करिण्यो
जलदा भवन्ति' अत्र आरोप्यमाणतिरस्करिणीत्वं आरोपविषयात्मतया
स्थितम् । एतच्च पूर्वमेव निरूपितम् । उपलक्षणविशेषणम्-काकवद्देवदत्त-
गृहम् । पृथक् स्थिते (तिः) हि धर्मिणि उपलक्षणमिति उपलक्षणविदः । काकत्वा-
दिजात्याविष्टस्यैव उपलक्षणत्वात् विशेषणतो भेदः । उपाधानविशेषणम्-
'रक्तं स्फटिकम्' इति । धर्मात्मना उपाधायकत्वात् उपलक्षणतो भेदः ।
व्यवर्तकत्वात् नीलोत्पलादेर्व्यावृत्तिः ॥
 
-
 
१३२
 
अत्रेदं तत्त्वम्-उपरञ्जकविशेषणस्थले — 'मुख चन्द्रः' 'कलश: स्तनौ
श्रुवौँ धनुः' इत्यादिस्थले–चन्द्रकलशाद्युपरञ्जक विशेषणानि आश्रितलिङ्ग-
सङ्ख्यान्येव मुखादिकं स्तनादिकं च विशिंषन्तीति, न स्तनादेः मुखादेर्वा लिङ्गं
सङ्ख्यां वा भजन्ते । नियतलिङ्गतया विशेष्यनिघ्नत्वाभावात् इतरेभ्यो विशे-
षणेभ्यो व्यावृत्तिः । मन्येशब्दप्रयोगात् संभावनोत्थानात् उत्प्रेक्षालङ्कारोऽपि ।
अनयोः अनुसृष्टिः, अपृथक्स्थितयोः अलङ्कारयोः अङ्गाङ्गिभावात् ।
क्स्थितयोः अलङ्कारयोरङ्गाङ्गिभावोऽनुसर्जनम्, पृथक्स्थितयोस्तु सङ्करः
इत्यालङ्कारिकरहस्यम् । अतिशयोक्तिरपि, भ्रूमध्यनासिकामध्ययोः मुष्टिप्रकोष्ठ-
स्थगितत्वेनाध्यबसानात् । अत्र नासिकायाः सन्येतरकरत्वेनारोपणप्रतीतेः
रूपकालङ्कारो ध्वन्यते । यद्या-सव्येतरकरत्वेन नासिकायाः अध्यवसानप्रतीतेः
 
अपृथ-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri