This page has not been fully proofread.

सप्तचत्वारिंशः श्लोकः
 
भ्रुवौ थुग्ने किञ्चिद्भुवनभयभङ्गव्यसनिनि
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।
धनुर्मन्ये सव्येतर करगृहीतं रतिपतेः
 
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७ ॥
 
भ्रुवौ भ्रूवल्ली, भुने अवाक्छृङ्गतया वलयिते, किंचित् नात्यन्तं
भुवनभयभङ्गव्यसनिनि ! भुवनानां जगतां भयस्य उपद्रवस्य भने
नाशकरणे व्यसनं तदेकप्रवणता अस्या अस्तीति भुवनभयभङ्गव्यसनिनी
तस्याः सम्बुद्धिः । त्वदीये भवत्संबन्धिन्यौ, नेत्राभ्यां अक्षिभ्यां, मधुकर-
रुचिभ्यां मधुकराणां भ्रमराणामिव रुचिःशोभा ययोस्ताभ्यां मधुकराकाराकारिता-
भ्यामित्यर्थः । धृतगुणं धृतः सम्पादितः गुणः ज्यावल्ली यस्य तत्, धनु,
चापं मन्ये शङ्के । सव्येतरकरगृहीतं सव्यो दक्षिणः तदितरो बाम: स
चासौ करश्च तेन गृहीतम् । सव्येतरशब्देन एकेनैव हस्तेन सर्वदा धृतम्,
न तु बाणप्रयोगार्थमिति सूच्यते । रतिपतेः मन्मथस्य, प्रकोष्ठे मणिबन्धे,
मुष्टौ अङ्गुलीनां ग्रन्थौ, अयं मुष्टिशब्दः अनुशासनवशात् स्त्रीलिङ्गोऽपि
प्रयोगबाहुल्यात् पुल्लिङ्गतामापन्नः, गण्डूषशब्दवत् । यथा 'उदरं परिमाति
मुष्टिना' इति नैषधे प्रयोगः । स्थगयति स्थगनं छादनं कुर्वति सति,
निगूढान्तरं निगूढे अन्तरे मौर्विदण्डयोर्यस्य तत्, उमे ! हे पार्वति ॥
 
.
 
१३१
 
अत्रेत्थं पदयोजना – हे उमे। भुवनभयभङ्गव्यसनिनि । त्वदीये
किञ्चिभे अवौ मधुकररुचिभ्यां नेत्राभ्यां धृतगुणं रविपतेः सन्येतरकर-
गृह्णीतं प्रकोष्ठे मुष्टौ च स्थगयति सति निगूढान्तरं धनुर्मन्ये ॥
 
,
 
अत्र भ्रुवौ धनुरिति रूपकम्, भ्रुवो: धनुरूपेण निरूपणात् ।
एव द्विवचनैकवचनयोः सामानाधिकरण्यं ध्रुवौ धनुरिति ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri