This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
१३०
 
मिथः अन्योन्यं सुधालेपस्यूति: मुधायाः अमृतस्य लेपः विलेपनं तस्य
स्यूतिः सीवनं यस्य सः अमृतरससान्द्र इत्यर्थः । परिणमति ताद्रूप्यं भजति,
तदाकाराकारित इत्यर्थः। राकाहिमकर: राकायां पूर्णिमायां हिमकरश्चन्द्रः ॥
 
अत्रेत्थं पदयोजना — हे भगवति ! तव यत् ललाटं लावण्यद्युति-
विमलं आभाति तत् मकुटघटितं द्वितीयं चन्द्रशकलं मन्ये । यद्यस्मात्का-
रणात् उभयमपि विपर्यासन्यासात् मिथः सम्भूय च सुधालेपस्यूतिः राका-
हिमकरः परिणमति ॥
 
पूर्णिमायां सम्पूर्णता चन्द्रस्य कथं भवेत्, किरीटे अर्धदेहाविष्ट-
तया चन्द्रः परिदृश्यत इति पूर्णिमाचन्द्रं निमित्तीकृत्य ललाटमुत्प्रेक्ष्यते ॥
 
अत्र उत्प्रेक्षालङ्कारः, ललाटस्य अर्धचन्द्रत्वेनोत्प्रेक्षणात्। यद्वा-द्विती-
यार्धे अतिशयोक्तिरलङ्कारः, राकाहिमकरस्य ललाटकिरीटघटितचन्द्ररेखाद्वि-
तयनिर्माणासम्बन्धेऽपि सम्बन्धकथनात् । अत्र कविकल्पितवस्तुवृत्तसौन्दर्य-
योरभेदाध्यवसायः । उत्प्रेक्षातिशयोक्त्योः अनाङ्गिभावेन सङ्करः । 'अध्यन-
सायव्यापारप्राधान्ये उत्प्रेक्षा' 'अध्यवसितप्राधान्ये त्वतिशयोक्तिः' । सूत्र-
द्वयस्यायमर्थः–'अध्यवसायविषयभूते अध्यवसानक्रियारूपस्य व्यापारस्य
प्राधान्यं यत्र तत्रोत्प्रेक्षोत्थानम् । यदा अध्यवसायविषयभूते अध्यवसितस्यैव
प्राधान्यं प्रतीयते, तदा अतिशयोक्तरुत्थानम् । अध्यवसायो नाम-निश्चय-
ज्ञानम् । तच्च कविप्रौढोक्तिसिद्धम्, न वास्तवम् । उत्प्रेक्षास्तु अध्यवसान-
क्रियाप्राधान्यस्य द्योतकाः। 'मन्ये शङ्के ध्रुवम्' इत्येवमादयः स्वरूपोत्प्रेक्षा-
द्योतकाः । हेतूप्रेक्षायां हेतुरेव । फलोत्प्रेक्षायां फलमेव द्योतकम् । अत
एव स्वरूपोत्प्रेक्षायां इवाद्यभावे हेतुफलयोरसम्भवात्, अतिशयोक्तयुत्प्रेक्षयोः
भेदाभाबात् सैवोत्प्रेक्षा अतिशयोक्तौ अन्तर्मूतेति दिब्यात्रमुक्तम् ॥ १६ ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri