This page has not been fully proofread.

षट्चस्वारिंशः श्लोकः
 
१२९
 
स्मरदहनचक्षुर्मधुलिहः
 
स्मरदहनस्य स्मरारे: ईश्वरस्य चक्षूंष्येव मधुलिहः
 
भ्रमराः । जितमन्मथस्यापि वदनसौन्दर्य दर्शन मादनहेतुरिति किमु वक्तव्यं
त्वदन सौन्दर्यस्वरूपमिति भावः ॥
 
अत्रेत्थं पदयोजना - हे भगवति ! स्वाभाव्यादरालैः अलिकलभसश्रीभिः
अलकैः परीवं ते वक्रं रुहरुचि परिहसति । दरस्मेरे दशनरुचिकिअल्क-
रुचिरे सुगन्धौ यस्मिन् स्मरदहनचक्षुर्मधुलिह: माद्यन्ति ॥
 
अत्र उपमालङ्कारः, पङ्केरुहरुचि परिहसतीत्यनेन वक्तूस्य कमल-
सादृश्यप्रतीतेः । अलिकलभसश्रीभिरित्यत्र उपमालङ्कारः । अनयोरङ्गाङ्गि-
भावेन सङ्करः । दशनरुचिकिञ्जल्करुचिरे इत्यत्र रूपकालङ्कारः, दशनरुचीनां
किझलकत्वेनारोपणात् । स्मरदहनचक्षुर्मधुलिहः इत्यत्र रूपकालङ्कारः; चक्षुषां
मधुलित्वेनारोपणात्। अनयोरङ्गाङ्गिभावेन सङ्करः, सङ्करद्वयस्य संसृष्टिः ॥४५॥
 
ललाटं लावण्यद्यतिविमलमाभाति तव यत्
द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
विपर्यासन्यासादुभयमपि संभूय च मिथः
 
सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६॥
 
ललाटं, निटिलं लावण्यद्युतिविमलं लावण्यं तारल्यमेव युति-
ज्योत्स्ना तया विमलं स्निग्धं, आभाति आ समन्ताद्भाति । तव यत्
द्वितीयं तत् मन्ये शङ्के । मकुटघटितं किरीटकलितं चन्द्रशकलं चन्द्रार्ध-
खण्डम्, विपर्यासन्यासात्–ललाटं अवाक्कोणं वर्तते; चन्द्रशकलं ललाट-
स्योपरि ऊर्ध्वशृङ्गं वर्तते ; उभयोर्विपर्यासन्यासः शृङ्गचतुष्कसम्मेलनं, तस्मात्
उभयमपि ललाटचन्द्रशकले, संभूय मिलित्वा, चकारोऽतिशयवाची ।
 
9
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri