This page has not been fully proofread.

१२८
 
सौन्दर्यलहरी सभ्याख्या
 
भगवति ! तब बदनसौन्दर्यलहरीपरी -
 
बाहस्रोतस्सरणिरिव स्थिता तव सीमन्तसरणिः प्रचलकचरीभारतिमिरद्विषां
बृन्दैः बन्दीकृतं नवीनार्ककिरणमिव सिन्दूरं वहन्ती नः क्षेमं तनोतु ॥
 
अत्रेत्थं पदयोजना — हे
 
-
 
अत्र उत्प्रेक्षालङ्कारः ; सीमन्तसरणेः स्रोतस्सरणित्वेनोत्प्रेक्षणात् । न
चायमुपमालङ्कारः; स्वतस्सिद्धमनुपजीव्य कविप्रौढोक्तिमेवोपजीव्योत्थानात् ।
न च संभावनापरस्येवशब्दस्य समासविधानाभावात् उपमैवेति वाच्यम् ।
'इवेन सह' इति समान्येनोमयार्थस्य इवशब्दस्य ग्रहणात् उभयत्रापि
समसोऽस्तीति ध्येयम् । उत्तरार्धेऽप्युप्रेक्षालङ्कारः; सिन्दूरस्य सूर्यकिरणात्मना
संभावनात् । कबरीभारस्य तिमिरत्वारोपणात् रूपकालङ्कारोऽपि वर्तते ।
एवमनयोरङ्गाङ्गिभावेन सङ्करः; संभावनां प्रति रूपकस्य निमित्तत्वात् ॥४४॥
 
अरालैः स्वाभाव्यादलिकलमस श्री भिरलकैः
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।
दरस्मेरे यस्मिन् दशनरुचि किञ्जल्करुचिरे
 
सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिंहः ॥ ४५ ॥
 
अरालैः कुटिलैः, स्वाभाव्यात् स्वभावतः अलिकलभसश्रीमिः
अलिकलमैः भ्रमरपोतैः सश्रीभिः समानामैः । समासान्तविधेरनित्यत्वात्
कप्रत्ययाभावः । अलकैः चूर्णकुन्तलैः, परीतं परितः इतं परीतं व्याप्तं ते
तब, वक्त्रं परिहसति, तत्तुल्यं न भवतीत्यर्थः । पङ्केरुहरुचिं पक्केरुहस्य
कमलस्य रुचि सौभाग्यं, दरस्मेरे दरमीषत् स्मेरो विकासः यस्य तादृशे,
यस्मिन् दशनरुचिकिझल्करुचिरे दशानानां दन्तानां रुचय एव किझल्काः
केसराः तैः रुचिरे सुभगे, सुगन्धौ सुपद्मगन्धौ, माद्यन्ति नन्दन्ति ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri