This page has not been fully proofread.

चतुश्चत्वारिंशः श्लोकः
 
१२७
 
तुलितदलितेन्दी वरवनमित्यत्र उपमालङ्कारः । अनयोस्संसृष्टिः, तिलतण्डुलवत्
संसृज्यमानत्वात् । क्षीरनीरवत् सम्बन्धः सङ्करः ॥ ४३ ॥
 
तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी -
 
परीवाहस्रोतस्सरणिरिव सीमन्तसरणिः ।
वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-
द्विपां वृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥ ४४ ॥
 
तनोतु विस्तारयतु दिशत्वित्यर्थ: । क्षेमं योगक्षेमाहमकं शुभं नः
अस्माकं, तब बदनसौन्दर्यलहरीपरीवाहस्रोतस्सरणिरिव–इदमेकं पदम्,
'इवेन सह नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च' इति
नियमात् । वदनं मुखं तस्त्र सौन्दर्यस्य सुन्दरभावस्य लहरी उत्सेकः तस्य
परीवाह: प्रवाहः 'उपसर्गस्य धन्यमनुष्ये बहुलम्' इति परिशब्देकारस्थ
दीर्घः । तत्र स्रोतस्सरणिरिव स्रोतसः प्रवाहस्य सरणिरिव मार्ग इव
स्थिता, सीमन्तसरणिः सीमन्ते धमिल्लमध्यप्रदेशे सरणिः सरण्याकारा-
कारिता रेखा, वहन्ती धारयन्ती, सिन्दूरं सिन्दूरपरागं, प्रबलकबरी-
भारतिमिरद्विषां प्रबलाः केशपाशात्मना लब्धजन्मतया प्रत्रलाः ते च ते
कचरीभाराः, त एव केशपाशनिचया एव तिमिराणि तान्येव द्विषः शत्रवः
तेषां, वृन्दैः समूहॆः, बन्दीकृतं बन्दीग्रहणावरुद्धम् । इव इति संभावनायाम् ।
कविप्रौढोक्तिस्थले इवशव्दस्य संभावनैवार्थः, 'अन्यत्र सादृश्यमिति
विवेकः । नवीनार्ककिरणं नवीनः प्रातःकालीनः अर्कः सूर्यः तस्य
 
किरणः तम् ॥
 
1
 
! अर्थतः ? इति पा.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri