This page has not been fully proofread.

१२६
 
सौन्दर्यलहरी सव्याख्या
धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं
 
घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ।
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो
 
वसन्त्यस्मिन्मन्ये बलमथनवाटीविटपिनाम् ॥ ४३ ॥
 
धुनोतु अपनुदत, ध्वान्तं अन्तस्तिमिरं, नः अस्माकं, तुलित-
दलितेन्दीवरवनं तुलितं सदृशीकृतं दलितं भिन्नं, विकसितमित्यर्थः,
इन्दीवराणां नीलोत्पलानां वनं यस्य । तत् । घनस्निग्धश्लक्ष्णं घन सान्द्र
अविरलं स्निग्धं स्नेहयुक्तमिव स्थितं लक्ष्णं मृदु । एवमेतेषां विशेषणानां
समासः । चिकुरनिकुरुम्बं चिकुराणां केशानां निकुरुम्ब समूहः केशपाशः
घम्मिल्ल इत्यर्थः । तव भवत्याः, शिवे ! भगवति । यदीयं यस्य धम्मिल्लस्य
सम्बन्धि, सौरम्यं परिमलं, सहर्ज स्वभावसिद्धं उपलब्धुं समाक्रष्टुं, मुम-
नसः पुष्पाणि, वमन्ति आसते । अस्मिन् धम्मिल्ले, मन्ये ध्रुवं,
बलमथनवाटीविटपिनां वलमथनः 'बलारिः- वबयोरभेदोपचार अनुप्रासार्थ -
मङ्गीकृतः – तस्य वाटी उद्यान तत्र विटपिनः कल्पवृक्षाः तेषाम् ॥
 
-
 
अत्रेत्थं पदयोजना — हे शिवे ! तुलितदलितेन्दीवरवनं घनस्निग्ध-
लक्ष्णं तव चिकुरनिकुरुम्यं नः ध्वान्तं धुनोतु । यदीयं सहजं सौरभ्यं
उपलब्धुं अस्मिन् वलमथनवाटीविटपिनां सुमनसः वसन्तीति मन्ये ॥
 
अत्र उत्प्रेक्षालङ्कारः, केशपाशवासनार्थमेव घृतायां कल्पवृक्षकुसुमानां
अन्यथात्वेनोत्प्रेक्षणात् । तल्लक्षणम् –
 
सम्भावनमथोत्प्रेक्षा प्रकृतस्य परेण यत् ॥ इति ।
 
1 बलारातिः, इन्द्र इति यावत्
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri