This page has not been fully proofread.

प्रथममुद्रणप्रस्तावना
 
4
 
इयं खलु देवीस्तुतिः श्लोकशतीमिता समयागमरहस्यगर्भिता
सौन्दर्यलहरी आनन्दलहरीति च प्रथते । को नु एतस्याः रचयिता ? किमभिधानः ?
इति नाद्यापि निश्चेतुं पारयामः, यतः प्राक्तना अपि व्याख्यातारः विषयेऽ-
स्मिन् सन्दिहाना एव स्तुतिमेतां व्याचक्रुः । तथा च डिण्डिमाख्यायां
सौन्दर्यलहरीव्याख्यायां आदौ-
"स्तोत्रमेतद्वदन्त्येके शिवेन परिभाषितम् ।
तस्यैवांशावतारेण शङ्करेणेति केचन ॥
केचिद्वदन्त्याद्यशक्तेर्ललितायाः महौजसः ।
 
दशनेभ्य: समुद्भूतमिति नानाविधा श्रुतिः ॥ इति" ।
सुधाविद्योठिनीनामिकायां तु टीकायां - - क्षत्रवंशशिखामणेः द्रमिड-
देशाधिपतेः द्रमिडाभिधानस्य वेदवतीसहधर्मचारिणीकस्य नृपस्य सुतः
प्रवरसेनो नाम्ना 'स्तनन्धयः' स्तुतिमेतां चकारेत्यभ्यधायि । यथा—
 
"आसीत् प्रवरसेनाख्यः क्षत्रवंशशिखामणिः ।
यस्य बाल्यं च वार्धक्यं विना यौवनवृद्धताम् ॥
द्रमिडो नाम तस्यासीद्रमिडेषु पिता नृपः ।
तस्यामात्यः शुको विद्वान् यो धर्मनिरतो द्विजः ॥
तदधीनमतिः सोऽथ पुत्रोत्पत्तौ समुत्सुकः ।
कृत्वा शुभानि कर्माणि वेदोक्तानि परन्तपः ॥
तस्य भार्या वेदवती परमामितलोचना ।
पुत्रं प्रवरसेनाख्यं प्राप हस्तयुगात्मके ।
सिंहे लग्ने नवमचरमं देवतादेशिकेजं
याते सूर्ये मिथुनभवनं बोधने मीनयाते ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri