2023-02-16 08:26:26 by ambuda-bot
This page has not been fully proofread.
द्विचत्वारिंशः श्लोकः
१२५
गतैः प्राप्तैः, माणिक्यत्वं रत्नभावं, गगनमणिभिः द्वादशादित्यैः ।
तेषां अत्यन्तसन्निकृष्टसेवार्थ भूषणगतमणित्वं युज्यते । सान्द्रघटितं
सान्द्रं नीरन्धं यथा भवति तथा घटितं खचिंत, किरीटं मकुटं, ते हैमं
हेम्नो विकारं, हिमगिरिसुते ! हे पार्वति । कीर्तयति वर्णयति, यः, स
कवीन्द्रः, नीडेयच्छायाच्छुरणशवलं नीडं गोलं तत्र खचिंत नीडेयं रत्न-
जातं तस्य छाया त्या छुरणेन व्यापनेन शबलं शबलवर्ण, चन्द्रशकलं
चन्द्रखण्ड, धनुः कोदण्डं, शौनासीरं शुनासीरः इन्द्रः तस्य संबन्धि
शौनासीरं, किमिति न निबध्नाति धिपणां बुद्धिम् ॥
अत्रेत्थं पदयोजना - हे हिमगिरिमुते ! माणिक्यत्वं गतैः गगनमणिभिः
सान्द्रघटितं ह्रैम ते किरीटं यः कीर्तयति सः नीडेयच्छायाच्छुरणशबलं
चन्द्रशकलं शौनासीरं धनुरिति धिषणां किं न निबध्नाति ॥
अयं भावः– किरीटवर्णनां कर्तु मुधुञ्जानः कवीश्वरः तत्र स्थितां चन्द्ररेखां
नानारत्नमणिकान्तिच्छुरितां दृष्ट्वा इन्द्रचापत्वेन कथं नाशङ्कते ? अवश्यं तस्य
तच्छक्का जायत एवेति ॥
-
अत्र उत्प्रेक्षालङ्कारः, चन्द्रशकलस्य इन्द्रचापत्वेनोत्प्रेणात् ।
यद्वा — अपह्नवालङ्कारः, इदं चन्द्रशकलं न भवति, अपि तु इन्द्रचाप
इत्यपहबस्य प्रतिभानात् । यद्वा – सन्देहालङ्कारः, अयमिन्द्रचापः उत
चन्द्रशकलमिति संशयात् । यहा – अतिशयोक्तिरलङ्कारः, इन्दुशकलस्य
इन्द्रचापत्वेन अध्यवसानात् ; स्वाधिषणां इन्द्रचापे किमिति न निबध्नाति
इति सामान्योक्तेः । एतेषां मध्ये एकस्य प्राधान्यं इतरस्योपसर्जनत्वमिति
विनिगमकप्रमाणाभावात् सन्देहसङ्करः । (उत्प्रेक्षातिशयोक्ती स्पष्टे ।
अपह्नवस्तु तल्लिङ्गाभावादपि किमिति धिषणां न निबध्नादि इत्यपहबोल्लेखस्त्र
शक्यत्वात् । सन्देहस्तु चन्द्रशकले दृष्टे इन्द्रचापस्य स्मृत्य/ रूढत्वात्
उल्लेखयितुं शक्य एवेति सन्देहसङ्कर एव ज्यायान्) ॥ ४२ ॥
CC-0. Jangamwadi Math Collection. Digitized by eGangotri