This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
न च 'ऊर्ध्वमूलमवाक्छाख वृक्षं यो वेद संप्रति' + इति
श्रुतेः देहरूपवृक्षस्य शिर एव मूलं, करचरणाद्यवयवाशाखाः, अतश्च षट्-
कमलानां कदलीकुमुमोपमानानां अधोमुखानां अवरोहक्रमेण कमलान्युक्ता-
नीति तत्र पूजा सुरेति तदानुगुण्येन भगवत्पादैरुक्तमिति वाच्यम्;
तादात्म्यध्यानव्यतिरेकेण पूजायाः असंभवात् । संभवे वा श्रीचक्रगत त्रिकोणा-
दिषट्चक्राणां अधोमुखत्वाभावात्,
 
१२४
 
"मूलाधारस्थितामेव देवीं सुप्तां प्रबोधयेत्" इति ।
तत्रैव प्रबोधनियमात्, मूलाधारादिक्रमेणैव पूजा समयिनां कौलादीनां च
* कार्येति परमगुरुमुखादेव अवगतं रहस्यम् । वामकेश्वरतन्त्रे आत्मपूजायां
विशेष उक्तः–
 
पाशाङ्कुशौ तदीयौ तु रागद्वेषात्मकौ स्मृतौ ।
शब्दार्शादयो बाणा: मनस्तस्याभवद्धनुः ॥
करणेन्द्रियचक्रस्थां देवीं संवित्स्वरूपिणीम् ।
विश्वाहङ्कारपुप्पेण पूजयेत्सर्वसिद्धिभाक् ॥ इति ।
* इयं उपासना । विधिः क्रियात्मको नादरणीयः ॥ ४१ ॥
 
एवं समयमतं सम्यक्प्रपञ्चय समयायाः भगवत्याः किरीटप्रभृति
 
पादान्तं वर्णयति-
-
 
गतैर्माणिक्यत्वं गगनमणिभिस्सान्द्रघटितं
 
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।
 
स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं
धनुः शौनासीरं किमिति न निबध्नाति घिषणाम् ॥ ४२ ॥
 
1 कायिकेति.
'अयमुपासनाविधिः इति स्यात्.
 
। तै. आा. १-११.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri