This page has not been fully proofread.

एकचत्वारिंशः श्लोकः
 
वचनं, तत्तु आन्तरचन्द्रस्य आज्ञाचक्रोपरिस्थितस्य सहस्रकमलान्तर्गतचन्द्र-
कलामृतनिष्यन्दैः उज्जीवनमिति तत्र तस्याः पूजानिर्बन्धो नास्तीति, अत
एव पिण्डाण्डब्रह्माण्डचन्द्रयोरैक्यात् ब्रह्माण्डस्थितचन्द्रमण्डलेऽपि पूजानिर्बन्धो
नास्तीत्येवंपरम् ॥
 
एवं हृदयकमल एव समाराधिता भगवती ऐहिकानि फलानि सर्वाणि
ददाति । यदा वशिन्यादियुक्ता ध्याता सारस्वतं ददाति । यावकरसाप्लुता
ध्याता वशीकरणं ददाति । 'मुर्ख बिन्दुं कृत्वा' ' इत्यादिना ध्याता
तादृशं फलं ददाति । हृदयक्रमले एव होमादिकं तर्पणादिकं च कार्य
ऐहिकफलसाधनमिति 'स्मरं योनिं लक्ष्मीम्' *इत्यादिश्लोकव्याख्यानावसरे
निपुणतरमुपपादितम् । अतः समयिनां ऐहिकामुष्मिकफलसाधनोपायः आन्तर-
पूजेति समयमततत्वम् ॥
 
१२३
 
अत्र भगवत्पादैः आधारकमलादिक्रमं विहाय आज्ञाचक्रादिक्रमेणे
अवरोहक्रमेण पूजाप्रकारः कथितः । अयमाशयः – 'आत्मन आकाशस्स-

म्भूतः । आकाशाद्वायुः । वायोरभिः । अग्नेरापः । अद्भयः पृथिवी
इति श्रौतक्रममवलम्ब्य अवरोहकम उक्तः । अत एव स्वाधिष्ठानानन्तरभाविनः
मणिपूरस्य तदधःप्रदेशे निरूपणं युज्यते । आधारस्वाधिष्ठानानन्तरं मणिपूर-
कावस्थानमिति सर्वयोगशास्त्रसिद्धम् । तदपि संवतग्निदग्धस्य जगतः उज्जी-
बनानन्तरं उत्पत्ति वक्तुमित्यवगन्तव्यम् । एतच्च शुक्रसंहितायां 'श्रृणु देवि
प्रवक्ष्यामि' इत्यारभ्य एकनवतिश्लोकैः, श्रीचक्रस्य षट्चक्राणि प्रस्तुत्य 'इदानीं
संप्रवक्ष्यामि' इत्यारभ्य सार्धशत्या श्लोकैश्च सप्रपञ्च प्रतिपादितम् । तत्
तत एवावधार्यम् ॥
 
+ १९ श्लोकः. * ३३ श्लोक:
* तै. उ. २-१.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri