This page has not been fully proofread.

१२२
 
सौन्दर्यलहरी सब्याख्या
 
भवानि श्रीहस्तैर्वहसि फणिपाशं सृणिमधो
 
धनुः पौण्डूं पौधं शरमथ जपत्रक्शुकवरम् ।
अथ द्वाभ्यां मुद्रामभयवरदानैकरसिके
 
कणद्वीणां द्वाभ्यामुरसि च कराभ्यां च बिभूषे ॥
 
समयिनां प्रत्यक्षं परिदृश्यमाना आस्ते भगवती । समयिनां सहस्रकमलपर्यन्तं
आन्तरपूजा कर्तव्या । सहस्रकमले तु तिरस्करिणीप्रसारणपर्यन्तं दर्शनमेव
समाराधनम् । यदुक्तं सुभगोदये-
सूर्यमण्डलमध्यस्थां देवीं त्रिपुरसुन्दरीम् ।
पाशाङ्कुशधनुर्बाणहस्तां ध्यायेत्सुसाधकः ॥
त्रैलोक्यं मोहयेदाशु 'बरनारीगणैर्युतम् ॥ इति ।
 
चर्चास्तोत्रेऽपि कालिदासकृते-
-
 
-
 
ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति
रूपं तवाम्ब नवयावकपङ्करम्यम् ।
तेषां सदैव कुसुमायुधबाणभिन्न-
वक्षस्स्थला मृगदृशो वशगा भवन्ति ॥ इति ।
 
अत्र समयिनां बाह्यपू जानिषेधात् सूर्यमण्डलान्तर्गतत्वेन पूजनं निषिद्ध-
मित्याहुः। तन्न, ब्रह्माण्डस्थित पिण्डाण्डस्थित चन्द्रसूर्ययोः ऐक्यात् सूर्यस्य चन्द्र-
कलामृतनिष्यन्दवशात् उज्जीवनात् । यतः 'अपां रसमुदयंसन्' *इत्यादिश्रुत्या
प्रतिपादितमिति प्राक् प्रतिपादितम्, अतः चन्द्रकला विद्यायाः सुर्यसम्पर्कात्
तेजस्तिरोधानं स्यादिति केचन सझिरन्ते; तदपि अपास्तं वेदितव्यम् ।
अत एव पिण्डाण्डब्रह्माण्डचन्द्रयोरयात् चन्द्रमण्डलान्तर्गतत्वेन चन्द्रकला -
विद्यायाः पूजनं युज्यते। यत॒ पूर्वोकं चन्द्रबिम्बगतत्वेन देव्याः पूजननिषेध-
+ 'शोणम्' इत्यपि पाठ:
* तै आ. १-२२.
 
1
 
नरनारीगणैः, शत
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri