This page has not been fully proofread.

एकचत्वारिंशः श्लोकः
 
१२१
 
राध्या । अर्ध्यपाद्यादिभूषणप्रतिपादनपर्यन्तं पूजाकलापं मणिपूरे निर्व
अनाहतमन्दिरं भगवतीं नीत्वा, धूपादिनैवेद्यहस्तप्रक्षालनान्तं कर्मकलापं
तत्रैव समाप्य, विशुद्धौ भगवतीं सिंहासनासीनां सखीभिः सल्लापात् सम्भाष-
माणां शुद्धस्फटिकसदृशैः मणिभिः पूजयेत् । शुद्धस्फटिकसदृशमणयो न
मौक्तिकादयः, किंतु तदीयषोडशंदलगतषोडशचन्द्रकला इति रहस्यम् ।
एवं संपूज्य आज्ञाचक्रं नीत्वा देवीं कामेश्वरीं नीरा जनविधिभिः अनेकैः
संप्रीणयेत् । अत एव उक्तं कर्णावतंसस्तुतौ मदीयायाम्-
आज्ञात्मक द्विदळपद्मगते तदानीं
विधुन्निभे रविशशिप्रयतोत्कटाभे ।
गण्डस्थलप्रतिफलत्करदीपजाल-
कर्णावतंसकलिके कमलायताक्षि ॥ इति ।
 
एवमाज्ञाचक्रे नीराजनविधिं कृत्वा संप्रीणयेत् । तदनन्तरं झडिति विद्युल्लतेव
सहस्रकमलं अनुप्रविष्टा सुधाब्धौ पञ्चकल्पतरुच्छायायां मणिद्वीपे सरघामध्ये
सदाशिवेन सार्ध विहरमाणा वर्तते । तदा तिरस्करिणीं प्रसार्य समीपे
मन्दिरे स्वयं निवेसत् । यावत् भगवती विनिर्गता पुनः मूलाधारकुण्डं
प्रविशति तावत्पर्यन्तं स्थातव्यमिति समयमततत्त्वरहस्यम् ॥
 
अत्र शङ्करभगत्पादानां चतुर्विधैक्यानुसन्धानानन्तरं मणिपूरे प्रत्य-
क्षायाः भगवत्याः स्वरूपं 'कणत्काञ्चीदामा' इत्यादिध्यानप्रतिपादितं चतुर्भुजं
धनुर्बाणपाशाङ्कुशयुक्तरहस्यम् । तन्मतानुसारिणामपि तथैव प्रतिभाति भगवती ॥
 
अस्माकं तु षड्डिधैक्यानुसन्धानानन्तरं मूलाधारद्विकं भित्वा मणिपूरे
प्रसन्ना भगवती दशभुजा धनुर्बाणपाशाङ्कुशवरदाभयपुस्तकाक्षमालावीणाहस्ता ।
मन्मतैकदेशिनां पाशाङ्कुशपुण्डेक्षुचापपुष्पचाणजपमालिकाशुकाभयवरदकरा कर-
इयवक्षस्स्थलस्थापितवीणा । उभयमस्माकं सम्मतमेव । कर्णसस्तुतावतौ
मदीयायाम् -
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri