This page has not been fully proofread.

एकचत्वारिंशः श्लोकः
 
स्यम् । विशुद्धिचक्रं अधिष्ठानमिति अधिष्ठानसाम्यं उक्तम् । 'शुद्धस्फटिक-
विशदं' इत्यनेन रूपसाम्यं उक्तम् । 'व्योमजनकं इत्यनेन अनुष्ठानसाम्यं
उक्तम् ।
'शिवं सेत्रे' इत्यनेन नामसाम्यम् 'शशिकिरणेसारूप्यसरणेः '
इत्यनेन अवस्थानसाम्यमिति । 'तवाज्ञाचक्रस्थं' इत्यनेन अधिष्ठानसाम्य-
मुक्तम् । 'तपनशशिकोटितिरं इत्यनेन रूपसाम्यमुक्तम् । 'परं शम्भुं'
इत्यनेन नामसाम्यमुक्तम् । 'यमाराध्यन् भक्तचा' इत्यनेन अवस्थानसाम्य-
मुक्तम् । मुक्तिप्रदत्वमनुष्ठानसाम्यमिति साम्यपञ्चकं विज्ञेयम् । एतत् अति-
रहस्यं शिष्यानुजिघृक्षया प्रकाशितम् ॥
 
११९
 
अतः समयपूजकाः समयिनः । तेषां षट्चक्रपूजा न नियता,
अपि तु सहस्रकमल एव पूजा । सहस्रकमलपूजा नाम सहस्रकमलस्य बैन्दव -
स्थानत्वेन तन्मध्यगतचन्द्रमण्डलस्य चतुरश्रात्मना, तन्मध्यबिन्दोः पञ्चविंश-
तितत्त्वाती त षड्डू विंशात्मक शिवशक्तिमेलनरूपसादाख्यात्मना च अनुसन्धानम् ।
अत एव समयिमते बाह्याराधनं दूरत एव निरस्तम् । षोडशोचाररूपपूजाङ्ग-
कलापश्च ततोऽपि दूरत एव ।
 
तथा हि — आधारादिषट्चक्राणां त्रिकोणादिषट्चक्रत्वेन तादात्म्यम्,
बिन्दुस्थानस्य चतुरश्रसहस्रकमलत्वेन तादात्म्यं चिन्दुशिवयोस्तादात्म्यम्,
एवं देवी *शिवयोस्तादात्म्यमिति तादात्म्यत्रयम् । चक्रमन्त्रयोः ऐक्यं पूर्व-
मेवोक्तमिति, तेन सह चतुर्धा ऐक्यं समयिनां समयाराधनमिति महत् रहस्यम् ॥
 
अत्र किंचित् उच्यते-समयिनां चतुर्विधैक्यानुसन्धानमेव भगवत्याः
समाराधनमित्येतत् सर्वसम्मतम् । केचित्तु षोढा ऐक्यमाहुः । यथा - नाद-
विन्दुकलातीतं भागवतं तत्त्वमिति सर्वांगमरहस्त्रम् । नादः परापश्यन्ती-
मध्यमावैखरीरूपेण चतुर्विधः इति प्रागेवोक्तम् । परा त्रिकोणात्मिका,
 
* देह' इत्यपि पाठ:.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri