This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
११८
 
स्थानसाम्यं, अनुष्ठानसाम्यं, रूपसाम्यं, नामसाम्यं, चेति पञ्चविधं सम *.
प्रधानयोरेव शिवयोः । यथा - 'तबाधारे' इति अधिष्ठानसाम्यमुक्तम्,
उभयोः : आधारचक्रस्य अधिष्ठानरूपत्वात् । अनुष्ठानसाम्यं 'जनकजननी-
मज्जगदिदम्' इत्यनेन प्रतिपादितम् उत्पादनक्रियायां उभयोः व्याप्रिय-
माणत्वात् । अवस्थानसाम्यं लास्यताण्डवशब्दाभ्यां प्रतिपादितम् । लास्यताण्ड-
वयोः नृत्यरूपेण एकत्वं उक्तं प्राकू । रूपसाम्यं तु आरुण्यं उभयोः
तन्त्रान्तरसिद्धम् -
 
·
 
जपाकुपुमसङ्काशौ मदघूर्णितलोचनौ ।
 
जगतः पितरौ वन्दे भैरवीभैरवात्मकौ ॥ इति ।
 
यद्वा – नवात्मानमिति रूपसाम्यं नामसाम्यं च प्रतिपदितमिति ध्येयम् ।
एवमेव इतरत्रापि उद्यम् । यथा – 'तटित्वन्तुम् ' इत्यादौ वटित्त्वान्
तटित्त्वती इति नामरूपसाम्ये । यद्यपि स्थिरसौदामिनीरूपायाः तटिदूपत्वात्
तद्वत्वं नास्ति, तथापि सौदामिन्या: स्थिरत्वमेव सर्वदा तटियुक्तत्वमिति
तटित्त्वतीति उक्तिः युक्ता इति अनुसन्धेयम् । मणिपूरस्थानं अधिष्ठानमिति
'मणिपुरैकशरणं' इत्यनेन अधिष्ठानसाम्यमुक्तम् । 'स्फुरन्नानारत्नाभरण-
परिणद्धेन्द्रधनुषम्' इत्यनेन 'वर्षन्तं' इत्यनेन च प्रावृषेण्यत्वावस्थानसाम्यं
प्रतिपादितम्' । 'तव स्वाधिष्ठाने' इत्यादिश्लोके 'स्वाधिष्ठाने' इत्यनेन
अधिष्ठानसाम्यं उक्तम् । 'महतीं' इत्यनेन महासंवर्तीत्मकरूपनाम साम्ये
प्रतिपादिते । स्वाधिष्ठानगताग्निसंश्रयणं अवस्थानसाम्यम् । लोकान् दहतीति
अनुहानसाम्यं प्रतिपादितम् । अनाहतचक्रे अनाहतं अधिष्ठानमिति अधि-
ष्ठानसाम्यमुक्तम् । हुतभुक्कणिकारूपतया रूपसाभ्यं नामसाम्यं च । निवातदी-
पत्वोक्तया अवस्थानसाम्यम् । वायुतत्त्वोत्पादकत्वं अनुष्ठानसाम्यमिति रह-
* 'समययोः प्रधानयोः इति च पाठः•
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri