2023-02-16 08:26:25 by ambuda-bot
This page has not been fully proofread.
एकचत्वारिंशः श्लोकः
बिन्दुरूपिणी निद्राणैव संपूज्या, तस्याः सदा निद्राणस्वाभाव्यात् । सा
पूजा तामिस्रा ।
कुण्डलिनीप्रबोधो यदा स्यात्, तत्क्षणमेव मुक्तिः
कौलानाम् । अत एव क्षणमुक्ता: कौला इति व्यवहारः । * तत्र सुरा-
मांसमधुमत्स्त्रादिद्रव्यैः समाराधनं वामाचारप्रवृत्या प्रत्यक्षत्रिकोण विन्दुस्थानं
मन्मथच्छत्रं कृत्वा संपूजयन्ति, अधोमुख त्रिकोणं अधोमुखमेव छत्रं
पूजयन्ति । दिगम्बरक्षपणकादयस्तु स्त्रियं उत्तानां कृत्वा ऊर्ध्वं त्रिकोणं
पूजयन्तीति रहस्यम् । अत्र बहु वक्तव्यमस्ति; तत्तु अवैदिकमार्गत्वात्
स्मरणार्हमपि न भवति । तथापि दिङ्मात्रं निषेध्यत्वेन समयमतमार्गप्रदर्श-
नोपयोगितया उक्तमिति अलं विस्तरेण ॥
।
-
अत्र समग्रिमतं निरूप्यते – त्रिकोणादि षट्चक्रं आधारादिषट्-
चक्रात्मना परिणतमिति प्रागेव प्रतिपादितम् । तत्र श्रीचक्र त्रिकोणं
बैन्द्रवस्थानमिति तावत् सुप्रसिद्धम् । तत्र 'त्रिकोणत्रयेण अष्टकोणनिर्माणे
त्रिकोणादेव बिन्दुस्थानं भवतिं । तच्च चतुष्कोणमेव । तत्तु सहस्रकमलान्तर्गतं
चन्द्रमण्डलमिति पूर्वमेव बहुधा प्रपञ्चितम् । एतत् चतुष्कोणमध्यं
बैन्दवस्थानं 'सुधासिन्धु; ' 'सरघा' इति बहुधा प्रपश्चितम् पूर्वमेव । एतत्
चतुष्कोणमध्यं बिन्दुस्थानमिति बाह्यपूजा तरुणीत्रिकोणपूजा च दूरत एव
निरस्तेति ध्येयम् । अत एव समयिनां सहस्रकमले समयायाः समयस्य
च शम्भोः पूजा । समया नाम-शम्भुना साम्यं पञ्चविधं यातीति समया ।
'समयत्वं शम्भोरपि–पञ्चविधं साम्यं देव्या सह यातीति ।
अतः उभयोः
समप्राधान्येनैव साम्यं विज्ञेयम् । पञ्चविधसाम्यं तु– अधिष्ठानसाम्यं, अव-
3
* "तस्मात् कौलानां त्रिकोणे आनन्दभैरवीमहाभैरवौ संपूज्यौ । साधकानां
ताभ्यां तादात्म्येनावस्थानम् । अत एव कौला: बिन्दुपूजावसरे भैरवाकारं दिगम्बरत्व-
माश्रित्य समचैयन्ति स्त्रीपुरुषाः" इति अधिकः पाठः केषुचिष्कोशेषु.
1
चक्रात्मकम्.
* कोणाष्टकोणनिर्माणे. 'तरुणीपूजा. दूतीसमयस्य.
CC-0. Jangamwadi Math Collection. Digitized by eGangotri