This page has not been fully proofread.

सौन्दर्यलहरी सव्याख्या
 
उभाभ्यां एताभ्यां 'आनन्दभैरवी महाभैरवाभ्यां, उदयविधि उत्पत्ति
उद्दिश्य । कुत इत्याह–दययेति । दग्धलोकस्य पुनरुत्पादननिमित्त दयया
सनाथाभ्यां मिलिताभ्यां, जज्ञे उत्पन्नम्। जनकजननीमत् मातापितृमत्,
जगत् प्रपञ्च इदं पूर्वोक्तम् । लास्थनाट्यसंविधानप्रतिपादनात् प्रकृतिपुरुषयोः
दर्शने जगदुत्पत्तिः, लास्यनृत्तावसानमेव जगत्संहृतिरिति कौलसिद्धान्तः ॥
 
-
 
अत्रेत्थं पदयोजना — हे भगवति ! तव मूले आधारे लास्यपरया
समयया सह नवरसमहाताण्डवनटं नवात्मानं मन्ये । उदयविधिमुद्दिश्य
एताभ्यां उभाभ्यां दयया सनाथाभ्यां इदं जगत् जनकजननीमत् जज्ञे ॥
 
-
 
अयं भावः – आधारस्वाधिष्ठानयोः तामिस्रलोकत्वात् तत्र कौलानां
अधिकारात् समयिनां आराधनाभावेऽपि स्वमतानुसारेण सहस्रकमले निषेव्यैव
भगवती आधारस्वाधिष्ठानयोः सेव्येति महाभैरवी समयापदेन* उच्यत
इति ॥
 
अत्रेदमनुसन्धेयम्-आधारचक्रं त्रिकोणम्, आधारे चिन्दुः तिष्ठतीति
च तावत् प्रसिद्धम् । अत्र कौलमते त्रिकोणमेव बिन्दुस्थानम् । स एव
बिन्दुः तत्र आराध्यः । अत एव कौलाः त्रिकोणे बिन्दुं नित्यं समर्चयन्ति ।
तत् त्रिकोणं द्विविधं, श्रीचक्रान्तर्गतनवयोनिमध्यवर्तिनी योनिः, सुन्दर्याः
तरुण्याः प्रत्यक्षयोनिश्च । श्रीचक्रस्थितनवयोनिमध्यगतयोनिं भूर्जहेमपट्टवस्त्र-
पीठादौ लिखितां पूर्वकौलाः पूजयन्ति । तरुण्याः प्रत्यक्षयोनि उत्तरकौलाः
पूजयन्ति । उभयं योनिद्वयं बाह्यमेव न आन्तरम् । अतः तेषां आधार-
चक्रमेव पूज्यम् । तत्र स्थिता कुण्डलिनी शक्तिः कौलिनी इत्युच्यते ।
सैव उपास्या त्रिकोणपूजकानां इति रहस्यम् । एषा कुण्डलिनी शक्तिः
 
*'पदेशेन' इति च पाठ:
आनन्द भैरवमहाभैरवीभ्यां.
 
1
 
पा.
 
furora
 
जगदुश्पत्तिमुद्दिश्य
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri