This page has not been fully proofread.

एकचत्वारिंशः श्लोकः
 
११५
 
-
 
अस्या ऋचोऽयमर्थः – पुञ् अभिषवे । सुनोतीति सुत्रामा अग्निः
अग्नितश्वं स्वाधिष्ठानगतमित्यर्थः पृथिवीं मूलाधारस्थितां, द्यां गगनं विशुद्धि-
स्थितां, अनेहसं कालं मनस्तत्वं अज्ञाचक्रस्थितं, सुशर्माणं वायुतत्त्वं,
अदितिं अदित्यात्मकं जलतत्त्वं, सुप्रणीर्ति सुमार्गे मोक्षे प्रणीर्ति प्रकर्षेण
नयन्तीम् । दैवीं देव्या इमां चक्रविद्यामित्यर्थः, नावं नौकां संसारसागर-
तरणोपायभूतां, स्वरित्रां सुदृढानि अरित्राणि लाङ्गलानि यस्याः सा तां, दुष्कर्म-
जञ्झापवनैः अचलमिति यावत् । अनागसं अस्रवन्तीं स्वयं दृढां आरुहेम
तत्प्रवणा भवेम तदेक्रनिरताः तदुपासनपरा: स्यामेत्यर्थः । स्वस्तये मोक्षाय,
निरतिशयसुखावाप्तय इति । अवशिष्टं श्रुतिजातं सुभगोदयव्याख्यानावसरे
सम्यक् निरूपितमस्माभिः ॥ ४० ॥
 
तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरसमहाताण्डवनटम् ।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
 
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१ ॥
 
तव भवत्याः, आधारे (आधारचक्रे) मूले मूलाधारचक्र इत्यर्थः ।
सह साकं, समयया समयसंज्ञया, लास्यपरया लास्ये नृत्ये परं तात्पर्य
यस्याः तया । स्त्रीकर्तृकं नृत्यं लास्यमित्युच्यते । नवात्मानं आनन्दभैरवं,
मन्ये जानामि । नवरसमहाताण्डवनटं नवभिः शृङ्गारादिभिः रसैः महत्
अद्भुतं ताण्डवं– पुंकर्तृकं नृत्यं ताण्डवमित्युच्यते तत्र नटं अभिनेतारम् ।
 
-
 
1
 
स्थानस्थिताम्.
 
2 अस्त्रवन्तीं भरन्ध्राम्.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri